Enter your Email Address to subscribe to our newsletters

रायपुरम्, 5 दिसंबरमासः (हि.स.)। छत्तीसगढ़स्य मुख्यमन्त्री विष्णुदेवः सायः अद्य शुक्रवारदिने मध्यप्रदेशस्य भ्रमणे भविष्यति। प्रातः नववादने रायपुरात् प्रयाणं कृत्वा ग्वालियरनगरं प्राप्स्यति, यत्र ते सिंधी-कॉलोनीस्थे आयोजिते निजी-कार्यक्रमे सहभागी भविष्यति। ग्वालियरात् प्रत्यागत्य मुख्यमन्त्री सायः रायगढं गमिष्यन्ति तथा च तत्र अघोर-गुरुपीठे दर्शनं करिष्यति। ततः परं सायं पञ्चवादने रायगढात् रायपुरं पुनरागमनं करिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani