Enter your Email Address to subscribe to our newsletters


मुंबई,8 दिसंबरमासः ( हि,. स.)।ठाणेनगरस्य प्रान्तीयमनोचिकित्सालयक्षेत्रे शतशः प्राचीनवृक्षानां छेदनस्य संकटं पुनरपि उद्भूतं जातम्। अस्याः गम्भीरस्थितेः विषये पर्यावरणविशेषज्ञः डॉ प्रशान्तसिन्करः मुख्यमन्त्रिणं देवेंद्रफडणवीसन्तं प्रति त्वरितप्रतिनिधिपत्रं समर्पितवान्। यत एव एषः प्रदेशः ठाणेशहरस्य अवशिष्टेषु ग्रीनबेल्ट् प्रदेशेषु अत्यन्तं महत्वपूर्णः अस्ति, अतः ठाणेनिवासिनः अस्य वृक्षकटनस्य दृढं विरोधं कुर्वन्ति।
यद्यपि बैङ्गलूरुस्थितनिम्हन्स् संस्थानस्य आदर्शेण आधुनिकमनोविकार चिकित्सालयस्य निर्माणपरियोजना स्वागतार्हा अस्ति, तथापि तस्य कृते शतशः वृक्षान् छेत्तव्यमिति विज्ञापनेन जनानां मध्ये महान् चिन्ताऽभवत्। यतः नगरे प्रायः “पत्रेषु दश वृक्षा— वस्तुतः तु त्रिंशत्” इति प्रकारेण वृक्षकटनं जातम्, अतः जनानां विश्वासः न्यूनीकृतः अस्ति।
डॉ सिन्करः स्वप्रतिनिधिपत्रे स्पष्टतया उक्तवान् यत् अयं प्रदेशः दीर्घजीविनो विशालाः दशकपुरातनाः च वृक्षाः ठाणेशहरस्य तापमानं नियंत्रयन्ति, जैवविविधताम् अवलम्बयन्ति, नगरे स्वाभाविकं श्वासवातावरणं च प्रदान्ति। सः चेतयामास यत् यदि व्यापकस्तरे वृक्षकटनं भविष्यति, तर्हि पर्यावरणसमतोलं विघटितं भविष्यति।
तेन मुख्यमन्त्रिणं प्रति चत्वारि प्रमुखानि निवेदितानि—
1. वृक्षकर्तनप्रस्तावः स्वतन्त्रया पारदर्शकया विशेषज्ञसमित्याऽवलोकितः पुनर्विचारितश्च भवेत्।
2. ये वृक्षाः अन्यत्र रोपयितुं शक्यन्ते, तान् वैज्ञानिकपद्धत्या त्वरितं संरक्षितुं यत् प्रयत्नः क्रियते।
3. नवीननिर्माणयोजनेषु एतादृशं परिवर्तनं क्रियेत यत् वृक्षानां हानिः अल्पतमो भवेत्।
4. ये ये वृक्षा छेत्तव्याः तेषां विषये सम्पूर्णा प्रक्रिया नागरिकानां कृते उद्घाटिता भवेत्।
“एते वृक्षाः केवलं हरितिमा न— ठाणेशहरस्य प्राणाः, अस्याः नगर्याः पहचानम्। विकासः आवश्यकः, किन्तु विनाशस्य मूल्येन न।” इति सिन्करः अवोचत्।
अद्य समग्रं ठाणेनगरं प्रतीक्षते यत् किं मुख्यमन्त्री एतत् विषयं प्रति कियत् ध्यानं दास्यन्ति, शतशः वृक्षानां च भविष्यं किं भवेत् इति।
पर्यावरणविदः डॉ प्रशान्तः अपि अवोचत्— “एते वृक्षाः वर्षानां पर्यन्तं ठाणेनगरं शीतच्छायया, विशुद्धवायुवेगैः, जीवनदानेन च पालयन्ति। अद्य तेषां रक्षणार्थं उत्तिष्ठितुं अस्माकं नगरस्यैव कर्तव्यं। यदि वृक्षाः रक्ष्यन्ते तर्हि श्वोऽपि ठाणे रक्ष्यते।”
---------------
हिन्दुस्थान समाचार