छत्तीसगढेऽन्वेषणात्मिका आभासिकी छायाचित्रप्रतियोगिता—अद्य आरभ्य १५ दिसम्बरपर्यन्तम्।
रायपुरम्, ८ दिसम्बरमासः (हि.स.)।छत्तीसगढपर्यटनमण्डलेन राज्यस्थापनाया रजतजयंतीवर्षस्य उपलक्ष्ये अद्य सोमवासरात् (८ दिसम्बरतः) २१ दिसम्बरपर्यन्तं विशेषगतिविधीनां तथा प्रतियोगितानां श्रृङ्खला आयोज्यते। अस्यां श्रृङ्खलायां प्रदेशस्य विविधेषु पर्यटनकेंद
छत्तीसगढ़ फोटोग्राफी करते युवा फाइल फाेटाे


रायपुरम्, ८ दिसम्बरमासः (हि.स.)।छत्तीसगढपर्यटनमण्डलेन राज्यस्थापनाया रजतजयंतीवर्षस्य उपलक्ष्ये अद्य सोमवासरात् (८ दिसम्बरतः) २१ दिसम्बरपर्यन्तं विशेषगतिविधीनां तथा प्रतियोगितानां श्रृङ्खला आयोज्यते। अस्यां श्रृङ्खलायां प्रदेशस्य विविधेषु पर्यटनकेंद्रेषु, विश्रामगृहेषु च, तथा पर्यटनमण्डलस्य प्रधानकार्यालये रायपुरेऽपि नानाविधाः सृजनात्मकाः कार्यक्रमाः प्रस्ताविताः सन्ति। एतेषां कार्यक्रमाणां प्रमुखोऽभिप्रायः छत्तीसगढपर्यटनस्य नूतन-आयामप्रदानं कर्तुं भवति।

अस्याः प्रतियोगिताया: उद्देश्यं छत्तीसगढप्रदेशस्य प्राकृतिकसौन्दर्यं, सांस्कृतिकपरम्परां पर्यटनस्थलानि च नूतनदृष्ट्या प्रकाशयितुं, तथा युवानां इच्छुकछायाचित्रकाराणां च प्रतिभाप्रदर्शनाय समर्थं मंचं प्रदातुं अस्ति। अस्यां प्रतियोगितायां भारतस्य कस्मादपि भागात् आगताः १८ वर्षेभ्यः अधिकवयस्काः प्रतिभागिनः आभासीमाध्यमेन स्वीयाः प्रविष्टयः प्रेषयितुं शक्नुवन्ति। प्रतिभागिभिः छत्तीसगढविषयकं मौलिकं छायाचित्रं निर्धारिते ई-मेल्-उपरि अथवा आभासीपोर्टल इत्यस्मिन् प्रकाशितव्यम्। तेन सह स्वनाम, आयुः, चलदूरवाणीसङ्ख्या, निवासस्थानम्, छायाचित्रस्य च संक्षिप्तं विवरणं दातव्यम् इति अनिवार्यम्।

प्राप्तप्रविष्टीनां मूल्याङ्कनं विशेषज्ञन्यायमण्डलेन सृजनात्मकता, तान्त्रिकगुणवत्ता, विषयसामञ्जस्यं तथा पर्यटनमूल्यम् इत्यादीनां मानदण्डानाम् आधारेण क्रियते। विजेतॄणां घोषणा १९ दिसम्बरदिने भविष्यति।

प्रथमपुरस्काररूपेण 'हिल्-इको- विश्रामगृहं' द्वयोः व्यक्त्योः कृते द्विरात्रि-त्रिदिन-आवासव्यवस्था प्रदास्यते। द्वितीयपुरस्काररूपेण सोनभद्रपर्यटकविश्रामगृहे आमाडोबे द्वयोः व्यक्त्योः कृते एका रात्रिः द्वौ दिनौ च आवास-व्यवस्था भविष्यति। तृतीयपुरस्काररूपेण १५०० रूप्यकाणां नकदराशिः प्रदास्यते। विजेतृभ्यः प्रमाणपत्राण्यपि प्रदीयन्ते।

उत्कृष्टानि छायाचित्राणि भविष्यति, काले छत्तीसगढपर्यटनमण्डलस्य प्रचारसामग्र्यां तथा डिजिटलमाध्यमेषु स्थानं प्राप्स्यन्तीति अपि विचार्यते, येन प्रतिभागिनां व्यापकपरिचयः सम्भवेत्। एतादृशी प्रतियोगिता न केवलं स्थानिकपर्यटनस्य संवर्धनं कुर्वन्ति, अपि तु युवानां मध्ये सृजनात्मक-अभिव्यक्तेः तथा छायाचित्रकलेः प्रति रुचिम् अपि सुदृढं कुर्वन्ति। अत एव राज्यस्य छायाचित्रकारान्, पर्यटकान् सामान्यनागरिकान् अधिकाधिकसङ्ख्यया भागग्रहणाय याचना कृता अस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani