Enter your Email Address to subscribe to our newsletters

भोपालम्, 08 दिसम्बरमासः (हि.स.)। भोपालराजधानीमध्ये अद्य सोमवासरे आर्थिक सांख्यिकी संचालनालय मध्यप्रदेश तथा यूनिसेफ मध्यप्रदेश इत्येतयोः संयुक्तसंयोजनेन जन्म मृत्यु विवाहपंजीकरणविषये प्रशिक्षणसहकार्यशाला आयोजिताऽस्ति। कार्यशाला प्रातः दशवादने आर सी नरोन्हा प्रशासन अकादमीतः आरभते।
आर्थिक सांख्यिकी विभागस्य आयुक्त मुख्यरजिस्ट्रार जन्ममृत्यु विकासमिश्रेण कथितं यत् शिशोर्जन्मप्रमाणपत्रं तस्य प्रथमं परिचयपत्रम्, यत् जन्मतिथिं जन्मस्थानं च सूचयति। अक्टोबर 2023 तः आरभ्य जन्मप्रमाणपत्रमेव सर्वत्र मान्यं दस्तावेजं भविष्यति— विद्यालयप्रवेशे, सेवाप्राप्तौ, पास्पोर्टनिर्माणे च। मृत्यु प्रमाणपत्रं कस्यचित् व्यक्तेः अवसानस्य प्रमाणं, येन तस्य उत्तराधिकारिणां प्रति दावानां निवारणक्रिया विधीयते।
तस्योक्तं यत् मध्यप्रदेशविवाहरजिस्ट्रीकरणनियम 2008 अनुसारं विवाहपंजीकरणम् अपि अनिवार्यम्। एतत् दम्पत्योः लग्नस्य प्रमाणभूतं दस्तावेजम्, यस्याभावे नानाविधाः कठिनताः जायन्ते। एतेषां प्रमाणपत्राणां आवश्यकतां महत्त्वं च दृष्ट्वा तेषां जनसामान्यस्य सुलभतां प्रक्रियासरलतां च सुनिश्चितुं विभागेन निरन्तरं प्रयत्नाः क्रियमाणाः।
एतस्मिन्नर्थे यूनिसेफ आर्थिकसांख्यिकी संचालनालयेन च संयुक्ततया जिला रजिस्ट्रार जन्ममृत्यु, रजिस्ट्रार जन्ममृत्यु शासकीयचिकित्सामहाविद्यालयाः, नगरपालिकानिगमाः, चयनितखण्डचिकित्साधिकारी, मुख्यचिकित्साधिकारी, उपरजिस्ट्रार जन्ममृत्यु पंचायतसचिवा, महिला बालविकासविभागात् आंगनवाड़ीकार्यकर्तारः ग्रामसंघटनात् चयनितमहिलापदाधिकारी च अस्मिन् कार्यशालायां आमन्त्रिताः। कार्यशालायाः उद्देश्यः— जन्म मृत्यु विवाहप्रमाणपत्राणां लाभः सर्वजनैः सुगमतया प्राप्तुं शक्यताम् इति।
हिन्दुस्थान समाचार / अंशु गुप्ता