Enter your Email Address to subscribe to our newsletters

मुरादाबादम् , 08 दिसम्बरमासः (हि.स.)। मतदाता-विशेष-पुनरीक्षण-अभियाने (SIR) कस्यापि प्रकारस्य असावधानता न सह्यते। बाङ्गलादेशीयाः अवैधप्रवेशकाः कदापि मतदातृरूपेण न भविष्यन्ति। एताः वाचः उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथेन सोमवारे मुरदाबादस्य सर्किट्-गृहे मुरदाबाद-मण्डलस्य विभिन्न-जनपदानां जनपदप्रभारिणः, पक्ष-अधिकारीणः जनप्रतिनिधयश्च सह SIR विषयक-समीक्षासभायां प्रोक्ताः।
मुख्यमंत्री योगी आदित्यनाथः अवदत् यत् SIR-अभियानं शतप्रतिशतं सम्पन्नं कर्तुं पक्षस्य जनप्रतिनिधयः अधिकारीणश्च कार्यकर्तृभिः सह दलान् निर्माय गृहं-गृहं जनसंपर्कं कुर्वन्तु। कृत्रिम-मतदातॄणां नामानि अपाकुर्युः, यथार्थ-मतदातॄणां नामानि च योजयेयुः।
मुख्यमंत्री योगी आदित्यनाथः अवदत्— जनसामान्यस्य कृते SIR अतीव गम्भीरम् विषयः। पक्षस्य BLO-1, BLO-2 इत्येतयोः साहाय्यं कुर्वन्तु। पक्षस्य जनप्रतिनिधयः अधिकारीणश्च असावधानतां न कुर्वीरन्। मतदाता-सूच्यां 2003-तमवर्षस्य अनुसारं मृतानां कृत्रिम-मतदातॄणां च नामानि निष्कासनीयानि। तस्मै पक्ष-अधिकारीभिः कार्यकर्तृभिः सह दलान् निर्माय गृहं-गृहं जनसंपर्कः कर्तव्यः। तेन सह केन्द्र-राज्य-सर्वकारयोः योजनानां विषयेऽपि सूचना गृह्यताम्— विकासयोजनाः कुत्र यावत् प्राप्ताः। अग्रे आगामि-वर्षे ग्रामपञ्चायत-चयनः, ततः अनन्तरं विधानसभाचयनम् भविष्यति। अतः पक्षस्य सज्जतां दृढं भवितुमर्हति।
हिन्दुस्थान समाचार / Dheeraj Maithani