केरलनगरे पादकन्दुकक्रीडायाः पूर्वं विस्फोटककारणात् दुर्घटना, त्रिंशत्यधिकाः जनाः घातिताः
मलप्पुरम् (केरलम्), १८ फरवरीमास :(हि.स.)। केरलस्य मलप्पुरममण्डलस्य आरीकोडे इत्यत्र पादकन्दुकक्रीडायाः समये विस्फोटकदुर्घटनायां त्रिंशत्यधिकाः जनाः घातिताः। क्रीडायाः पूर्वं उत्सवेषु विस्फोटका: प्रज्वलिताः परन्तु नियन्त्रणात् बहिः गत्वा प्रेक्षकाणां म
केरलनगरे पादकन्दुकक्रीडायाः पूर्वं विस्फोटककारणात् दुर्घटना, त्रिंशत्यधिकाः जनाः घातिताः


मलप्पुरम् (केरलम्), १८ फरवरीमास :(हि.स.)। केरलस्य मलप्पुरममण्डलस्य आरीकोडे इत्यत्र पादकन्दुकक्रीडायाः समये विस्फोटकदुर्घटनायां त्रिंशत्यधिकाः जनाः घातिताः। क्रीडायाः पूर्वं उत्सवेषु विस्फोटका: प्रज्वलिताः परन्तु नियन्त्रणात् बहिः गत्वा प्रेक्षकाणां मध्ये प्रसृताः इति दुर्घटना अभवत् ।

दुर्घटनायाः अनन्तरं शीघ्रमेव स्थानीयप्रशासनम् आपत्कालीनसेवा च कार्ये प्रवृत्ताः, आहताः समीपस्थे निजीचिकित्सालये प्रवेशिताः। प्रारम्भिकसूचनानुसारं कोऽपि गम्भीररूपेण घातितः इति सूचना न प्राप्ता।

घटनायाः सूचनां प्राप्य आरीकोड-आरक्षका: तत्स्थानं प्राप्य विषयस्य अन्वेषणं आरब्धवान् । आरक्षकस्य मते विस्फोटकानाम् अनियंत्रितविस्फोटस्य कारणेन दुर्घटना अभवत्। घटनायाः विषये अधिकानि सूचनानि प्रतीक्षन्ते।

हिन्दुस्थान समाचार / ANSHU GUPTA