Enter your Email Address to subscribe to our newsletters
मीरजापुरम्, 24 फ़रवरीमासः (हि.स.)।सोमवासरे केन्द्रीयराज्यमन्त्रिणः अनुप्रिया पटेलस्य अध्यक्षतायां कृषिविज्ञानकेन्द्रे बीएचयू बरकछायां किसानसम्मानसमारोहस्य आयोजनं कृतम्। अस्मिन् काले प्रधानमन्त्री किसानसम्माननिधिस्य 19तमा अंशिका विमोचिता, यस्य माध्यमेन मण्डलस्य 3,07,896 कृषकाणां कृते डीबीटीद्वारा 61.57 कोटिरूप्यकाणां सहायताराशिः प्राप्ता। समारोहे कृषकाणां कृते सर्वकारीययोजनानां विषये सूचना दत्ता, प्राकृतिककृषेः, ग्रीष्मकालीनसस्यानां च विषये विशेषज्ञैः मार्गदर्शनमपि कृतम्। केन्द्रीयमन्त्री 10 कृषकान् अपि सम्मानितवान्। अस्मिन् अवसरे अनेके अधिकारिणः जनप्रतिनिधिः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / ANSHU GUPTA