Enter your Email Address to subscribe to our newsletters
रायपुरम्, 24 फरवरीमासः (हि.स.)छत्तीसगढ़ विधानसभायाः बजटसत्रम् अद्य प्रारम्भ: अर्थात् 24 फरवरी तः , यः 21 मार्च पर्यन्तं चलिष्यति। राज्यपालस्य सम्बोधनं सोमवासरे भविष्यति। इत्स्यमात् परं पूर्व प्रधानमंत्री डॉ. मनमोहनसिंहवर्याय श्रद्धांजलि प्रदत्ता। सम्बोधनस्य अनन्तरं सर्वे सदस्याः निर्माणाधीनस्य नूतनस्य विधानसभासङ्कुलस्य निरीक्षणार्थं गमिष्यन्ति। अस्मिन् सत्रे विष्णुदेव सायः सर्वकारः स्वस्य द्वितीयं बजटं प्रस्तुतं करिष्यति। वित्तमन्त्री ओ पी चौधरी 3 मार्च दिनाङ्के सत्रस्य समये बजटं प्रस्तुतं करिष्यति। बजटसत्रे 2 सहस्राधिकाः प्रश्नाः पृष्टाः सन्ति अस्मिन् सत्रे 17 सभाः भविष्यन्ति।
2024-25वर्षस्य तृतीयपूरकबजटस्य माङ्गल्याः विषये 25 फरवरी दिनाङ्के चर्चा भविष्यति। 26 फरवरी दिनाङ्के महाशिवरात्रि अवकाशः भविष्यति। तदनन्तरं प्रतिशनिवासरे-रविवासरे अवकाशः भविष्यति। अवकाशदिनानां, होली-उत्सवस्य च कारणात् मार्च-मासस्य 13 दिनाङ्कात् मार्च-मासस्य 16 दिनाङ्कपर्यन्तं सभायाः चर्चा न भविष्यति । सदनस्य चर्चा पुनः मार्चमासस्य 17 दिनाङ्कात् आरभ्यते, अथवा मार्चमासस्य 21 दिनाङ्कपर्यन्तं भविष्यति। अस्मिन् बजटसत्रे विधानसभासदस्याः कुलम् 2367 प्रश्नान् पृष्टवन्तः। एतेषु प्रश्नेषु 1230 तारायुक्ताः 1147 अतारकप्रश्नाः च पृष्टाः सन्ति । रमणसिंहः अवदत् यत् सर्वेषां विधानसभासदस्यानां कृते आई.आइ.एम. इत्स्याम् द्वि द्विवसीय प्रशिक्षणं कारिष्यति!
हिन्दुस्थान समाचार / ANSHU GUPTA