प्रधानमन्त्री नरेन्द्रमोदिना प्रारब्धे स्थूलताविरुद्धम् अभियाने सम्मिल्य सन्तोषः - मुख्यमन्त्री
श्रीनगरे, २४ फ़रवरीमासः (हि.स.)। जम्मू-कश्मीरप्रदेशस्य मुख्यमन्त्री उमर-अब्दुल्ला इत्यनेन सोमवासरे उक्तं यत् सः प्रधानमन्त्री नरेन्द्रमोदिना प्रारब्धे स्थूलताविरुद्धे अभियाने सम्मिल्य सन्तुष्टः अस्ति। मुख्यमन्त्रिणा उमर अब्दुल्ला इत्यनेन एक्स माध्यम
omar abdullah


श्रीनगरे, २४ फ़रवरीमासः (हि.स.)। जम्मू-कश्मीरप्रदेशस्य मुख्यमन्त्री उमर-अब्दुल्ला इत्यनेन सोमवासरे उक्तं यत् सः प्रधानमन्त्री नरेन्द्रमोदिना प्रारब्धे स्थूलताविरुद्धे अभियाने सम्मिल्य सन्तुष्टः अस्ति।

मुख्यमन्त्रिणा उमर अब्दुल्ला इत्यनेन एक्स माध्यमेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदिना प्रारब्धे स्थूलताविरुद्धे अभियाने सम्मिल्य अत्यन्तं सन्तोषम् अनुभवामि। तेन प्रधानमन्त्रिणः अभियाने सम्मिलितुं 10 जनानां नामनिर्देशः कृतः।

स अवदत् यत् स्थूलताया: कारणात् हृदयरोगः, द्वितीयप्रकारमधुमेहः, आघातः, श्वाससम्बद्धा विकाराश्च जीवनशैलीसम्बद्धाः स्वास्थ्यसमस्या: भवन्ति। तथा च चिन्ता, विषादः इत्यादयः मानसिकस्वास्थ्यसमस्या: अपि सम्भवन्ति। स अवदत् अद्याहं स्थूलताविरुद्धप्रधानमन्त्रिणः अभियाने सम्मिलितुम् एते दश जनाः नामिताः। ते अपि स्वयं दश-दश जनानां नामनिर्देशं कृत्वा अस्य संघर्षस्य विस्तारं करोतु। मुख्यमन्त्रिणा उमर अब्दुल्ला इत्यनेन नामितेषु प्रमुखाः व्यक्तयः सन्ति – बायोकॉन संस्थायाः प्रबन्धनिर्देशिका किरण-मजूमदार शॉ, व्यवसायी-सज्जनः जिंदल:, अभिनेत्री दीपिका पादुकोणः, पूर्वटेनिसक्रीडक: सानिया मिर्जा, पूर्वक्रिकेटक्रीडक: इरफान पठान, सांसदः सुप्रिया सुले, पूर्ववुशुक्रीडक: कुलदीप-हांडू च।

स्थूलतायाः विरोधे सशक्तप्रचारं कुर्वन् प्रधानमन्त्री मोदी इत्यनेन रविवासरे नमः संवादः इत्यस्मिन् कार्यक्रमे जनानां प्रति आह्वानं कृतं यत् अन्ने तेलस्य प्रयोगं न्यूनं कुर्वन्तु। तेन एवं उक्तं यत् तेलसेवनं दश प्रतिशतं यावत् न्यूनं कुर्वन्तु इति तथा अन्यानपि दश जनानाम् अस्य आवहानस्य स्वीकृतिं कर्तुं प्रेरयन्तु।

हिन्दुस्थान समाचार / ANSHU GUPTA