राजगढम्- विद्युद्धारया महिला मृता, अन्वेषणम् आरब्धम्
राजगढम्,24 फरवरीमासः(हि.स.)।सारङ्गपुरपुलिसक्षेत्रस्य अन्तर्गतं चतुर्रुखेडीग्रामे स्वभगिन्याः गृहे आगता 50 वर्षीया महिला सोमवासरे प्रातः स्नानगृहे सजीवविद्युत्तारानाम् सम्पर्कं कृतवती, यस्मात् कारणात् तस्याः स्थले एव मृत्युः अभवत्। शवपरीक्षायाः अनन्तर
राजगढम्- विद्युद्धारया महिला मृता, अन्वेषणम् आरब्धम्


राजगढम्,24 फरवरीमासः(हि.स.)।सारङ्गपुरपुलिसक्षेत्रस्य अन्तर्गतं चतुर्रुखेडीग्रामे स्वभगिन्याः गृहे आगता 50 वर्षीया महिला सोमवासरे प्रातः स्नानगृहे सजीवविद्युत्तारानाम् सम्पर्कं कृतवती, यस्मात् कारणात् तस्याः स्थले एव मृत्युः अभवत्। शवपरीक्षायाः अनन्तरं पुलिसैः शवः परिवाराय समर्प्य प्रकरणस्य पञ्जीकरणं कृत्वा प्रकरणस्य अन्वेषणं आरब्धम्। पुलिसदलस्य अनुसारं ग्राम खिलचीपुर निवासी सरीफ खानस्य निशर्बी (50) पत्न्याः विद्युतआघातेन मृत्युर्जाता। सूचनां प्राप्य पुलिसैः तत्स्थानं प्राप्य शवः स्वनिग्रहे गृहीत्वा शवपरीक्षायै चिकित्सालयं प्रेषितः। कथ्यते यत् सा महिला गतसायं चतुरुखेडीग्रामे स्वभगिन्याः गृहम् आगता, प्रातःकाले स्नानगृहे सजीवविद्युत्तारानाम् सम्पर्कं कृतवती, येन सा स्थले एव मृता। पुलिसदलेन प्रकरणं पञ्जीकृत्य अन्वेषणम् आरब्धम्।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA