छत्तीसगढ़स्य केन्द्रीयकारागारे बन्दीजनाः पवित्रसङ्गमजलस्यामृतस्नानं कृतवन्तः
रायपुरम् 25 फरवरीमासः (हि.स.)। छत्तीसगढ़स्य राजधानीनगरस्य रायपुरस्य केन्द्रीयकारागारे मङ्गलवासरे कश्चन अद्भुतदृश्यं दृष्टमस्ति। अत्र कारागृहबन्दिनां कृते महाकुम्भात् आनयितं पवित्रसङ्गमजलं स्नानाय विशेषतया व्यवस्थितम्। अस्मिन् विशेषसन्दर्भे प्रदेशस्य
कैदियों ने महाकुंभ से लाए गए गंगाजल से सामूहिक स्नान किया


रायपुरम् 25 फरवरीमासः (हि.स.)। छत्तीसगढ़स्य राजधानीनगरस्य रायपुरस्य केन्द्रीयकारागारे मङ्गलवासरे कश्चन अद्भुतदृश्यं दृष्टमस्ति। अत्र कारागृहबन्दिनां कृते महाकुम्भात् आनयितं पवित्रसङ्गमजलं स्नानाय विशेषतया व्यवस्थितम्। अस्मिन् विशेषसन्दर्भे प्रदेशस्य 5 केन्द्रीयकारागारेषु, 20 जिलाकारागारेषु, 8 उपकारागारेषु च बन्दिनः प्रभाते 8 वादने गङ्गाजलेन अमृतस्नानं कृतवन्तः। येन तेषाम् आध्यात्मिकशुद्धये अवसरः प्राप्तः। एषः कार्यक्रमः कारागारप्रशासनस्य प्रयत्नेन आयोजितः, यस्य लक्ष्यं कारागारबन्दिनः धर्मे, अध्यात्मनि, सनातनसंस्कृतौ च संयोजयितुं अस्ति।

उल्लेखनीयं यत् एतत् गङ्गाजलं छत्तीसगढ़स्य गृहमन्त्रिणा विजयशर्मेण इदानीन्ते महाकुम्भात् कारागारबन्दिनां कृते आनयितम्। बन्दिनः अस्य स्नानस्य माध्यमेन मानसिकस्य आत्मिकस्य च शान्तेः प्रप्तिं प्रत्याशां व्यक्तवन्तः। अस्य आयोजनस्य कृते कारागारपरिसरे विशेषतः टङ्काः कुण्डानि च निर्मितानि। यत्र विधिवद् पूजा-अर्चना मन्त्रोच्चारश्च सम्पादिताः, यत्र च गङ्गानद्याः पवित्रं जलं पूरितम्। एषु कुण्डेषु गुलाबस्य पङ्क्तयः अपि स्थापिताः येन वातावरणं पूर्णरूपेण आध्यात्मिकं जातम्।

अस्मिन् पवित्रस्नानसमये बन्दिनः हर-हर गङ्गे इत्येवं घोषम् अकुर्वन्, धार्मिकभावनया परिवेषणं भक्तिपूर्णमभवत्।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA