Enter your Email Address to subscribe to our newsletters
कांगपोकपी (मणिपुरम्), 28 फरवरीमासः (हि.स.)। काङ्गपोक्पी जिलापुलिस, सीआरपीएफ, वनविभाग काङ्गपोक्पी तथा एसडीसी सैकुल प्रखण्डयोः संयुक्तदलेन सैकुलारक्षकस्थानक्षेत्रस्य अन्तर्गतं लुङ्गटिन् उपमण्डलस्य सोम्फङ्गग्रामे अथोईनद्याः तटे अफीमविनाशकार्यक्रमः कृतः।
अद्य आरक्षकस्रोतांसि अवदन् यत् अस्मिन् अभियाने प्रायः ५० एकरेषु विस्तृता अवैध अफीमस्य कृषिः नष्टा अभवत्। अवैधकृषेः विरुद्धं कठोरकार्याणि निरन्तरं भविष्यन्ति इति प्रशासनेन चेतावनी दत्ता।
हिन्दुस्थान समाचार / ANSHU GUPTA