Enter your Email Address to subscribe to our newsletters
लखनऊ, 28 फरवरीमासः(हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः राष्ट्रियविज्ञानदिवसस्य हार्दिक्यः शुभकामनाः दत्तवान्। उपमुख्यमन्त्री स्वविचारं प्रकटयन् अवदत् यत् रमनप्रभावस्य आविष्कारेण विज्ञानजगति भारतस्य प्रतिष्ठायाः कृते नूतनाः आयामाः प्राप्ताः अपि च भविष्यत्सन्ततिम् अनुसन्धानस्य नवाचारस्य च दिशि प्रेरिताः। ज्ञान-अन्वेषण-वैज्ञानिक-चेतनां समर्पित-महान् वैज्ञानिकः 'भारतरत्नः' डॉ. सी. वी.रमनस्य इमाम् उपलब्धिं नमामि।
तस्मिन् एव काले उपमुख्यमन्त्री केशवप्रसादः सङ्गीतकारस्य रविन्द्रजैनस्य जन्मदिवसस्य अपि श्रद्धाञ्जलिम् अर्पितवान् । उपमुख्यमन्त्री उक्तवान् यत् आध्यात्मिकधारायां रामायणे स्वस्य दिव्यसङ्गीतेन भक्तिभावना जागृत्य 'पद्मश्री' इति पुरस्कारेण पुरस्कृतस्य प्रख्यातस्य सङ्गीतकारस्य रविन्द्रजैनस्य जन्मदिवसे नमामि। तस्य सङ्गीतेन कोटि-कोटि-भारतीयानां हृदयेषु या भगवान् राम-राष्ट्र-भक्ति-ज्वाला प्रज्वलिता, सा अतुलनीया अमरा च अस्ति ।
---------------
हिन्दुस्थान समाचार