Enter your Email Address to subscribe to our newsletters
इटानगरम्, 04 फरवरीमास:(हि.स.)। प्रवर्तननिदेशालयेन मंगलवासरे अरुणाचलप्रदेशे अवैधमद्यस्य व्यापारस्य, वित्तीयअनियमितानां च विरुद्धं विशालाः द्रुतान्वेषणं कृतम्। नाहरलागुन्, लेखीग्राम, बन्दरदेव इत्यादिषु अनेकस्थानेषु युगपत् एषा कार्यवाही कृता ।
प्रवर्तननिदेशालयदलेन नहरलागुनस्य लेजी परिसरे स्थितस्य नीरजशर्मा इत्यस्य मद्यगोदामस्य, लेखीग्रामस्य वंशवितरकस्य राजेनलोहिया इत्यस्य मद्यगोदामस्य, संजयदीवानस्य मद्यगोदामस्य, पूर्वमुख्यमन्त्री नबमतुकी इत्यस्य बीयरनिर्मानकेन्द्रस्य च द्रुतान्वेषणं कृतम्। अस्मिन् काले कोऽपि व्यापारी उपस्थितः नासीत् ।
प्रातः १० वादनात् आरभ्य सीआरपीएफ-समूहेन सह प्रवर्तननिदेशालयदलानि एतानि प्रतिष्ठानानि परितः कृत्वा अन्वेषणं कृतवन्तः । दृतान्वेषणे प्रवर्तननिदेशालय इत्यनेन मद्यनिर्माणं, परिवहनं, विक्रयणं, वित्तीयव्यवहारं च सम्बद्धाः अनेके दस्तावेजाः अधिगृहीता: सन्ति ।
सूत्रानुसारम् अरुणाचले उत्पादितस्य मद्यस्य गुप्तरूपेण व्यापारं कृत्वा पश्चिमबङ्ग, बिहारं, झारखण्डम् इत्यादिषु राज्येषु विक्रयणं क्रियते स्म। परन्तु अस्मिन् विषये प्रवर्तननिदेशालय संस्थायाः आधिकारिकं वक्तव्यं न दत्तम् ।
उल्लेखनीयं यत् अरुणाचलप्रदेशसर्वकारः, पुलिसप्रशासनं च अस्य द्रुतान्वेषणे विषये अवगतः नासीत् । इतरथा डिब्रुगढे राजेन् लोहिया इत्यस्य निवासस्थाने अन्येषु स्थानेषु च प्रवर्तननिदेशालय इत्यस्य कार्यवाही निरन्तरं भवति स्म ।
हिन्दुस्थान समाचार / ANSHU GUPTA