मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहनयादवः इंटरसिटी-एक्सप्रेसरेलयानेन भोपालं प्राप्तवान्।
भोपालम्, 5 फरवरीमासः (हि.स.)। मुख्यमन्त्री डॉ. मोहन यादवः मंगलवासरे रात्रौ जबलपुर-आरकेएमपी इन्टरसिटी-एक्सप्रेस रेलयानेन नर्मदापुरतः प्रस्थितवान्, रात्रौ प्रायः 10.16 वादने रानीकमलापति (आरकेएमपी) रेलस्थानं प्राप्तवान्। मुख्यमन्त्री डॉ. यादवः रेलस्थन
मप्रः मुख्यमंत्री डॉ. मोहन यादव इंटरसिटी एक्सप्रेस से पहुंचे भोपाल


भोपालम्, 5 फरवरीमासः (हि.स.)। मुख्यमन्त्री डॉ. मोहन यादवः मंगलवासरे रात्रौ जबलपुर-आरकेएमपी इन्टरसिटी-एक्सप्रेस रेलयानेन नर्मदापुरतः प्रस्थितवान्, रात्रौ प्रायः 10.16 वादने रानीकमलापति (आरकेएमपी) रेलस्थानं प्राप्तवान्। मुख्यमन्त्री डॉ. यादवः रेलस्थनेन उपस्थितैः यात्रिकैः, तेषां परिवारजनैः, अन्यैः नागरिकैः च सह सौहार्दपूर्णं वार्तालापं कृतवान् । सः बालकान् आलिंगितवान्, तेषां सह चित्र गृहीत्वा सर्वेषां कल्याणस्य विषये पृष्टवान्।

मुख्यमंत्री डॉ. यादवः नर्मदापुरमे आयोजितः माँ-नर्मदा-जन्मोत्सव गौरव-दिवस-महोत्सव च 2025तमे सहभागितायाः, रेलयानेन भोपाल-नगरम् आगमनस्य च इच्छां प्रकटितवान् । नर्मदापुरमतः आरकेएमपी-स्थानकं यावत् मुख्यमन्त्री डॉ. यादवः सामान्ययात्रिकवत् स्वयात्राम् अकरोत् । सः रेलयानस्य स्यन्दनं उपस्थितैः सर्वैः यात्रिकैः सह अतीव सौहार्दपूर्वकं वार्तालापं कृत्वा रेलयात्रायाः सम्यक् आनन्दं प्राप्तवान् । मुख्यमन्त्री यात्रिकैः सह राज्यसर्वकारस्य योजनानां विषये चर्चां कृत्वा तेभ्यः प्रतिक्रियामपि गृहीतवान्।

हिन्दुस्थान समाचार / ANSHU GUPTA