Enter your Email Address to subscribe to our newsletters
उत्तरदिनाजपुरम्, 05 फरवरीमासः (हि.स.)। मार्गदुर्घटनायां त्रीणि मित्राणि मृताः। बुधवासरे किशनगञ्जराष्ट्रीयराजमार्गे-27 मध्ये स्थानीयलोकयानस्थानकस्य सम्मुखे एषः दुर्घटना अभवत्। मृतानां नाम आदित्यनारायणः, सुजलकुमारः, बिट्टूबसाकः च सन्ति । तेषु आदित्यः सुजलः च कटिहारजनपदस्य बलरामपुरस्य निवासी अस्ति, बिट्टुः पूर्णियानगरस्य निवासी अस्ति । सर्वे माध्यमिककक्षायाः परीक्षां दातुं गच्छन्ति स्म।
एकः प्रत्यक्षदर्शी अवदत् यत् पाञ्जीपाड़ातः द्विचक्रिका उच्चवेगेन आगच्छति स्म। प्रथमं द्विचक्रिका नियन्त्रणात् बहिः गत्वा मार्गस्य पार्श्वे स्थितं विभाजकं आहतवान् । तदनन्तरं तस्य ट्रकयानस्य पृष्ठभागेन सह टकरावः अभवत् । दुर्घटनायाः वार्ता प्राप्य पुलिस तत्स्थानं प्राप्तवती। त्रयः अपि घातिताः सदर-चिकित्सालये नीताः, तत्र कार्यरताः वैद्याः तान् मृतान् इति घोषितवन्तः ।
उपविभागीयपुलिसपदाधिकारी गौतमकुमारः त्रयाणां शवस्य पोस्टमार्टम् प्रारब्धः इति उक्तवान्। क्षतिग्रस्तं द्विचक्रबाइकयानं आरक्षकैः अधिगृहीतम् अस्ति। ट्रकयानचालकः पलायितः अस्ति। अस्याः घटनायाः अन्वेषणं प्रचलति।
हिन्दुस्थान समाचार