Enter your Email Address to subscribe to our newsletters
कोलकाता, 05 फ़रवरी (हि. स.)।कोलकातानगरस्य बीबीडीबागक्षेत्रे बुधवासरे प्रातःकाले बैंकशाल् सिटी सिविलकोर्टपरिसरस्य अन्तः एकस्य पुलिस-अधिकारिणः गोली-युक्तः शवः प्राप्तः। मृतपुलिसपदाधिकारिणः गोपालनाथः इति ज्ञातः अस्ति। सः मालदामण्डलस्य निवासी आसीत्, न्यायाधीशस्य सुरक्षायाः प्रभारी च आसीत् । तस्य सेवारिवाल्वरः शरीरात् किञ्चित् दूरं शयितः अभवत् । प्रारम्भिक अन्वेषणे सः स्वस्य सेवारिवाल्वरेन आत्महत्यां कृतवान् स्यात् इति विश्वासः अस्ति । परन्तु अस्य पृष्ठे अन्यत् कारणं वा षड्यंत्रं वा अस्ति वा इति अपि पुलिस अन्वेषणं कुर्वती अस्ति। प्रातःकाले न्यायालयस्य कार्याणि न आरब्धानि आसन्, क्षेत्रे अत्यल्पाः जनाः अपि आसन् तदा एषा घटना अभवत् । स्थानीयजनाः उच्चैः कोलाहलं श्रुत्वा सुरक्षारक्षकान् आहूतवन्तः। पुलिसैः शवस्य कब्जां कृत्वा मृत्योः परीक्षणार्थं कलकत्ता चिकित्सामहाविद्यालयं प्रेषितम्। गोपालनाथस्य रिवाल्वरः तस्य शरीरात् किञ्चित् दूरं प्राप्तः। एतत् सामान्यं न मन्यते। अतः पुलिसैः स्निफरकुक्कुरानाम्, अङ्गुलिचिह्नविशेषज्ञानाम् च साहाय्यं स्वीकृत्य अन्वेषणं गभीरं कर्तुं निर्णयः कृतः अस्ति । वार्तालेखनसमयपर्यन्तं अस्याः घटनायाः प्रत्यक्षदर्शी न लब्धः ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA