Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 06 फरवरीमासः (हि.स.)। असम-एसटीएफ-संस्थायाः गुरुवासरे प्रातःकाले गुप्तचरसूचनायाः आधारेण शोणितपुरजनदस्य ढेकियाजुली-पुलिस-स्थानक्षेत्रस्य अन्तर्गतं हरासतापु-मुस्लिम-चापोरी-इत्यत्र छापामारी कृता। डीएसपी सत्येन्द्रसिंह हजारी इत्यस्य नेतृत्वे अस्मिन् कार्ये त्रयः जनाः गृहीताः। अस्मिन् छापे एच् के 33 अस्साल्ट् राइफलं, 30 कारतूसाः, त्रयः मोबाईलफोनाः, बोलेरोकारः, रॉयल एन्फील्ड् मोटरसाइकिलः च बरामदः।
गृहीतजनेषु मतीबुररहमानः (26) अपि च जुल्फिकार अली (32) तथा च सहिदुल इस्लाम (30) सम्मिलिताः आसन्। सर्वे अभियुक्ताः जप्तवस्तूनि च एसटीएफद्वारा अग्रे कानूनी प्रक्रियायै ढेकियाजुलीपुलिसस्य हस्ते समर्पितानि सन्ति।
हिन्दुस्थान समाचार