Enter your Email Address to subscribe to our newsletters
जयपुरम्, 6 फ़रवरीमासः (हि.स.)। चिकित्सा-स्वास्थ्यमन्त्री गजेन्द्रसिंहः गुरुवासरे विधानसभायां अवदत् यत् यदा अवैधरूपेण अपञ्जीकृतवैद्य-चिकित्सालयानां (नीम–हकीम) चिकित्सालयानां सञ्चालनस्य विषये सूचना विभागस्य समीपं आगच्छति तदा राज्यसर्वकारेण निर्मितसमित्याः माध्यमेन इष्टा प्रक्रिया क्रियते।
प्रश्नसमये विधायकबालमुकुंदाचार्यस्य मूलप्रश्नस्य लिखितोत्तरे चिकित्सास्वास्थ्यमन्त्रिणा सूचितं यत् विगतमेकवर्षे जयपुरजनपदे अपञ्जीकृतवैद्येभ्यः सूचनाः निर्गताः, तेषां चालितचिकित्सालयाः च पिहिताः। तस्य विवरणमपि सः प्रस्तुतवान् ।
---------------
हिन्दुस्थान समाचार