Enter your Email Address to subscribe to our newsletters
भोपालम्, 06 फरवरीमासः (हि.स.)। अद्य (गुरुवासरे) मध्यप्रदेशविधानसभायाम् ऐतिहासिकः कार्यक्रमः भविष्यति। श्रमणसंस्कृतेः महासन्तः आचार्यविद्यासागरमहाराजस्य प्रथमसमाधिस्मृतिदिवसाः विधानसभाभवने आचर्यन्ते। अस्मिन् अवसरे आयोजिते कार्यक्रमे मुख्यमंत्री: डॉ. मोहनयादव: विशेषत: उपस्थितः भविष्यति। अस्मिन् कार्यक्रमे न केवलं इन्दौरभोपालसहितस्य राज्यस्य अपितु देशस्य सर्वेभ्यः भागेभ्यः जनाः भागं गृह्णन्ति।
धार्मिकसमाजप्रवर्धक: राजेशजैनदड्डू उक्तवान् कार्यक्रमे गुणवत्तासंस्थापक: प्रमनसागरमहाराज व श्रुतसंवेगीमुनि आदित्यसागरमहाराज स्वेन समूहेन सह उपस्थितः भविष्यति। सः अवदत् यत् जैनसमुदायस्य कृते अस्य आयोजनस्य विशेषं महत्त्वं वर्तते यतोहि प्रथमवारं विधानसभाभवने जैनसन्तस्य पुण्यतिथिः आचर्यते। अस्मिन् काले जैनसमुदायस्य बहूनां जनानाम् उपस्थितिः अपेक्षिता अस्ति । कार्यक्रमे आचार्यविद्यासागरमहाराजस्य जीवनं व योगदानं इत्यस्य स्मरणं करिष्यते।
हिन्दुस्थान समाचार / ANSHU GUPTA