हिसारे निर्मास्यते लिंग क्रमण प्रयोगशाला,पशुवंशे भविष्यति  जैविकपरिष्कारः
चंडीगढम् , 6 फरवरीमासः (हि.स.)।हरियाणा मुख्यमन्त्री नायबसिंह सैनी हिसार-नगरे स्थिते शुक्राणु-उत्पादनकेन्द्रे 'लिंग क्रमण प्रयोगशालायाः स्थापनया संबद्धं अनुमोदनं कृतवान् । गुरुवासरे एतां सूचनां दत्त्वा सर्वकारस्य प्रवक्ता अवदत् यत् राष्ट्रियदुग्धविक
हिसारे निर्मास्यते लिंग क्रमण प्रयोगशाला,पशुवंशे भविष्यति  जैविकपरिष्कारः


चंडीगढम् , 6 फरवरीमासः (हि.स.)।हरियाणा मुख्यमन्त्री नायबसिंह सैनी हिसार-नगरे स्थिते शुक्राणु-उत्पादनकेन्द्रे 'लिंग क्रमण प्रयोगशालायाः स्थापनया संबद्धं अनुमोदनं कृतवान् । गुरुवासरे एतां सूचनां दत्त्वा सर्वकारस्य प्रवक्ता अवदत् यत् राष्ट्रियदुग्धविकासमण्डलस्य माध्यमेन स्थापनीयायाः एषा प्रयोगशाला देशस्य विकसितगोजातीयलिंगक्रमितवीर्यनिर्माणप्रौद्योगिक्याः माध्यमेन स्थापिता भविष्यति। सः सूचितवान् यत् केन्द्रसर्वकारस्य राष्ट्रियगोकुलमिशनस्य अन्तर्गतं हिसारनगरे स्थापनीयस्य अस्य लिंगक्रमितवीर्यप्रयोगशालायाः कृते 1863 लक्षरूप्यकाणि मुक्ताः सन्ति। राज्ये पशुजातेः उन्नयनार्थं एषा प्रयोगशाला महतीं लाभप्रदं भविष्यति इति सः अवदत्।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA