मार्गदुर्घटनायाम् एकः जनः मृतः, त्रयः घातिताः
गुवाहाटी, 07 फरवरीमास:(हि.स.)। राजधानीगुवाहाटीनगरस्य कृषिक्षेत्रे राष्ट्रियराजमार्गे भयङ्करदुर्घटनायाम् एकस्य व्यक्तेः मृत्युः अभवत्। यत्र अन्ये त्रयः गम्भीररूपेण घातिताः अभवन् । गतरात्रौ गुवाहाटीतः नागांवं गच्छन्ती एएस-१२वाई-६४६५ इति द्रुतगतिना स्व
गुवाहाटी के खेत्री में हुए सड़क हादसे में क्षतिग्रस्त कार की तस्वीर


गुवाहाटी, 07 फरवरीमास:(हि.स.)। राजधानीगुवाहाटीनगरस्य कृषिक्षेत्रे राष्ट्रियराजमार्गे भयङ्करदुर्घटनायाम् एकस्य व्यक्तेः मृत्युः अभवत्। यत्र अन्ये त्रयः गम्भीररूपेण घातिताः अभवन् ।

गतरात्रौ गुवाहाटीतः नागांवं गच्छन्ती एएस-१२वाई-६४६५ इति द्रुतगतिना स्विफ्टकारयानं नियन्त्रणात् बहिः गत्वा सेतोः ऊर्ध्वाधरविभाजिकायां कृत्वा दुर्घटनाग्रस्ता अभवत्। दुर्घटितं यानं सम्पूर्णतया क्षतिग्रस्तम् अभवत्। दुर्घटनायाः अनन्तरं राष्ट्रियराजमार्गे अवरोधः अभवत् ।

सूचना प्राप्तमात्रेण आरक्षकदलः तत्स्थानं प्राप्य सर्वान् आहतान् जनपदचिकित्सालये नीतवान्, तत्र एकः जनः मृतः इति घोषितः यत्र अन्ये त्रयः घायलाः गम्भीरस्थितौ सोनापुरजनपदचिकित्सालये भर्तीकृताः। पश्चात् गम्भीरं स्थितिं दृष्ट्वा त्रयः अपि उन्नतचिकित्सायाः कृते गुवाहाटी चिकित्सामहाविद्यालयं (जीएमसीएच ) प्रेषिताः।

सूचनानुसारं कारयानं मध्ये एकया महिलासहिताः चत्वारः जनाः आसन्। मृतकस्य ७० वर्षीयः बिमलचन्द्रपालः इति परिचयः कृतः अस्ति । गम्भीररूपेण घातितानां तेजपुरनिवासी चालकः बिमलबैश्यः (५४) माता सुब्रतपालः पुत्रः नयनपालः च इति परिवारः इति ज्ञातम्।

हिन्दुस्थान समाचार / ANSHU GUPTA