Enter your Email Address to subscribe to our newsletters
मुंबईः, 07 फरवरीमासः (हि.स.)। मुंबई मंत्रालयस्य समीप स्थिते शिवसेना शिण्डे समूहस्य विधायकस्य संतोषबङ्गरस्य विधायकनिवासस्य शुक्रवासरे प्रातःकाले आकस्मिकः अग्निः प्रज्वलितः। अग्निशामकदलेन अग्निः नियन्त्रितः अस्ति। अस्मिन् प्रसङ्गे कापि क्षतिः न अभवत् । पुलिसानुसारम् अद्य प्रातः विधायकनिवासस्य 313 संख्यके कक्षे अग्निप्रकोपस्य सूचना प्राप्ता। अग्निप्रकोपसमये विधायकः संतोषबङ्गरः कक्षे नासीत् । कक्षे उपस्थिताः तस्य श्रमिकाः तत्क्षणमेव कक्ष्यायाः बहिः आगतवन्तः, येन कोऽपि क्षतिग्रस्तः नासीत् । अग्निशामकदलः तत्स्थानं प्राप्य अग्निं नियन्त्रितवान् । प्रारम्भिकसूचनानुसारं कक्षे वातानुकूलस्य विस्फोट कारणेन अग्निः प्रज्वलितः। परन्तु सर्वकोणात् अस्य विषयस्य अन्वेषणं क्रियते।
-----------------
हिन्दुस्थान समाचार / ANSHU GUPTA