Enter your Email Address to subscribe to our newsletters
भोपालम्, 11 मार्चमासः (हि.स.)। भोपालस्य मुख्यचिकित्सास्वास्थ्यपदाधिकारिणः कार्यालयेन राष्ट्रियजलवायुपरिवर्तनं मानवस्वास्थ्यकार्यक्रमस्य अन्तर्गतं पर्यावरणनियोजनसङ्गठने अद्य (मंगलवासरे) अन्तरविभागीयकार्यशालायाः आयोजनं क्रियते। उपमुख्यमंत्री राजेन्द्रशुक्ला तथा च जनस्वास्थ्यम् एवं चिकित्साशिक्षाराज्यमंत्री नरेन्द्रशिवाजी पटेलः उद्घाटनम् करिष्यति।
मुख्य चिकित्सा एवं स्वास्थ्य अधिकारी डॉ. प्रभाकरतिवारी उक्तवान् यत् जनस्वास्थ्यम् एवं चिकित्सा शिक्षा विभागस्य राज्यस्तरीय अधिकारी, पर्यावरणम् एवं योजना संगठनस्य कार्यकारी निदेशक: आर. उमा महेश्वरी, राज्य ज्ञान केन्द्र एपको इत्यस्य समन्वयक, डॉ. लोकेन्द्र ठक्कर सहित अधिकृताधिकारी एवं यूनिसेफ इत्यस्य प्रतिनिधयः उपस्थिता: भविष्यन्ति। तेन उक्तं यत् सर्वकारीय-निजीक्षेत्रस्य वैद्यैः सह जनस्वास्थ्य-चिकित्साशिक्षाविभागस्य पंचायतविभागस्य अखिलभारतीयचिकित्साविज्ञानसंस्थानस्य पशुपालन-दुग्धविभागस्य,मत्स्यकल्याण-मत्स्यपालनविभागस्य,भारतीयविज्ञानशिक्षा-अनुसन्धान-संस्थानस्य, यूनिसेफस्य, कुक्कुटपालनविभागस्य,कृषि-उद्यान-विभागस्य,आरक्षकविभागस्य, मलेरियाविभागस्य, नगर निगमस्य, जेलविभागस्य प्रतिनिधिभिः सह कार्यशालायां भागं गृह्णीयुः।
डॉ. तिवारी इत्यनेन उक्तं यत् कार्यशालायां जलवायुपरिवर्तनस्य मानवस्वास्थ्यस्य प्रतिकूलप्रभावैः सह पशुषु तस्य दुष्प्रभावानाम् अपि चर्चा भविष्यति। कार्यशालायाः कृते यूनिसेफ् विशेषसमर्थनं प्रददाति।
हिन्दुस्थान समाचार / ANSHU GUPTA