Enter your Email Address to subscribe to our newsletters
भाेपालम्, 11 मार्चमासः (हि.स.)।
मराठासाम्राजस्य संस्थापकः छत्रपतिः शिवाजिमहाराजस्य वीरपुत्रः, पराक्रमीयोद्धा छत्रपतिः सम्भाजिमहाराजस्य पुण्यतिथिः अद्य मङ्गलवासरे अस्ति। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अपि महानयोद्धा छत्रपति संभाजिमहाराजस्य बलिदानदिवसे श्रद्धाञ्जलिं अर्पितवान्।
मुख्यमन्त्री डॉ. मोहन यादवः सामाजिकपटले लिखितवान् – धर्मनिष्ठा राष्ट्रभक्तेश्च प्रेरणास्रोतः, वीरशिरोमणिः छत्रपतिः सम्भाजिमहाराजस्य पुण्यतिथौ कोटिकोटिनमनं करोमि। अद्वितीयवीरतायाः कृते मातृभूमेः रक्षणाय च भवतां बलिदानं सर्वदा राष्ट्रधर्मसेवायाः कृते प्रेरणां प्रदास्यति।
---------------
हिन्दुस्थान समाचार