तमिलनाडुप्रदेशस्य दक्षिणभागे मूसलधारवृष्टेः सतर्कता
चेन्नई, ११ मार्चमासः (हि.स.)। तमिलनाडुप्रदेशस्य दक्षिणभागे कतिपये जनपदेषु मूसलधारवृष्टेः कृते किञ्चित् ऑरेंज अलर्ट इत्यपि अन्येषु जनपदेषु येलो अलर्ट इत्यपि प्रख्यापितम्। मौसमविभागेन उक्तं यत् कन्याकुमारी, तिरुनेलवेली, तेनकासी, थूथुकुडी जनपदेषु बुधवा
Orange Alert Issued for South Tamil Nadu Amid Heavy Rainfall Forecast


चेन्नई, ११ मार्चमासः (हि.स.)। तमिलनाडुप्रदेशस्य दक्षिणभागे कतिपये जनपदेषु मूसलधारवृष्टेः कृते किञ्चित् ऑरेंज अलर्ट इत्यपि अन्येषु जनपदेषु येलो अलर्ट इत्यपि प्रख्यापितम्।

मौसमविभागेन उक्तं यत् कन्याकुमारी, तिरुनेलवेली, तेनकासी, थूथुकुडी जनपदेषु बुधवासरे अतीव मूसलधारवृष्टेः सम्भावनां दृष्ट्वा ऑरेंज अलर्ट प्रख्यापितम्। तस्मिन्नेव काले विरुधुनगर, शिवगंगा, मयिलादुथुराई, तंजौर, तिरुवारुर, नागपट्टिनम, पुदुक्कोट्टई, रामनाथपुरम् इत्येषु जनपदेषु अपि वृष्टेः सम्भावनां दृष्ट्वा येलो अलर्ट प्रकाशितम्। मौसमविभागस्य अनुसारं तमिलनाडुप्रदेशस्य अन्येषु भागेषु तथा च पुदुचेरीप्रदेशे शुष्कं मौसमं भविष्यति। विभागेन उक्तं यत् मङ्गलवासरे बुधवासरे च दक्षिणतमिलनाडुप्रदेशे वृष्टेः सम्भावना अधिका अस्ति। एतेन सह चेन्नईनगरस्य समीपप्रदेशेषु आंशिकं मेघाच्छादनं भविष्यति, मध्यमवृष्टि सह गर्जनं विद्युत्च सम्भाव्यते। अधिकतमतापमानं ३२-३४ डिग्री सेल्सियसं न्यूनतमतापमानं च २२-२४ डिग्री सेल्सियसं भविष्यति।

---------------

हिन्दुस्थान समाचार