Enter your Email Address to subscribe to our newsletters
जम्मू 12 मार्चमासः (हि.स.)। जम्मू-कश्मीर-सर्वकारेण बुधवासरे उक्तं यत्, प्रधानमन्त्रिग्रामीण-आवासयोजनायाः अन्तर्गतं विगतवर्षद्वये १३५,९२५ गृहाणि निर्मिताः। विधायक अर्जुनगुप्तस्य प्रश्नस्य उत्तरं दत्त्वा ग्रामीणविकासपञ्चायतीराजमन्त्री अवदत् यत् सामाजिक-आर्थिकजातिगणना (एसईसीसी) २०११ तथा आवासप्लस् अभिलेखकोषः पूर्णतया संतृप्तः अस्ति, अतः वित्तीयवर्षस्य २०२४-२५ कृते पृथक् लक्ष्यं नास्ति।
परन्तु पूर्वचरणात् १४०,०२१ गृहाणाम् अवशिष्टम् अतिरिक्तलक्ष्यं वर्तमानवित्तवर्षे सम्पन्नं भविष्यति। सः अवदत् यत् जम्मू-मण्डले १०९,४१२ गृहाणि निर्मिताः, काश्मीर-मण्डले तु २६,५१३ गृहाणि निर्मितानि ।
हिन्दुस्थान समाचार / ANSHU GUPTA