साम्बामण्डले अन्तर्राष्ट्रीयसीमायाः समीपे पाकिस्तानस्य ध्वजनाम युक्तः वायुगोल: प्राप्तः
जम्मू, 12 मार्चमास:(हि.स.)। जम्मूविभागस्य साम्बामण्डले बुधवासरे अन्तर्राष्ट्रीयसीमायाः भारतीयपक्षे पाकिस्तानस्य ध्वजनाम च युक्तं वायुगोलकं प्राप्तम्। अधिकारिणः अवदन् यत् साम्बामण्डलस्य घगवालक्षेत्रस्य पलौनाग्रामे प्रातःकाले एकः शङ्कितः वायुगोल: प्रा
सांबा जिले में अंतरराष्ट्रीय सीमा के पास मिला पाकिस्तानी झंडे और नाम वाला एक गुब्बारा


जम्मू, 12 मार्चमास:(हि.स.)। जम्मूविभागस्य साम्बामण्डले बुधवासरे अन्तर्राष्ट्रीयसीमायाः भारतीयपक्षे पाकिस्तानस्य ध्वजनाम च युक्तं वायुगोलकं प्राप्तम्।

अधिकारिणः अवदन् यत् साम्बामण्डलस्य घगवालक्षेत्रस्य पलौनाग्रामे प्रातःकाले एकः शङ्कितः वायुगोल: प्राप्तः, येन सक्रीयता उत्पन्ना। सः अवदत् यत् तस्मिन् वायुगोले पाकिस्तानस्य नामं, ध्वजचिह्नं च अस्ति । अयं वायुगोलस्य ग्रामस्य एकया स्त्रिया क्षेत्रेषु लब्धः । महिला तत्क्षणमेव स्थानीयजनानाम्, घागवाल-आरक्षकस्थानकं च सूचनां दत्तवान्। आरक्षकदलः तत्स्थानं प्राप्य वायुगोलकम् अधिगृहीवान्।

अधिकारिणः अवदन् यत् सम्प्रति आराक्षक:अस्य विषयस्य अन्वेषणं कुर्वन् अस्ति यत् एषः वायुगोल:कुतः आगतः, तस्य पृष्ठतः किमपि षड्यंत्रम् अस्ति वा इति। अस्मात् पूर्वमपि सीमाक्षेत्रेषु एतादृशानां वायुगोलाणाम् अन्वेषणस्य घटनाः ज्ञाताः सन्ति । सुरक्षासंस्थाः अस्य विषयस्य गम्भीरतापूर्वकं अन्वेषणं कुर्वन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA