रायपुरस्य लोकसेवाकेन्द्रे लुण्ठनम्, लुण्ठकैः भुशुण्ड्याधारे 3.5 लक्षरुप्यकाणां लुण्ठनम्।
देहरादूनम्, 12 मार्चमासः (हि.स.)। देहरादूनस्य रायपुरक्षेत्रे स्थिते लोकसेवाकेन्द्रे चौर्यस्य घटना प्रकाशं पथे अस्ति। स्कूटरयाने उपविष्टाः त्रयः दुष्टाः लोकसेवाकेन्द्रे भुशुण्ड्याधारेण प्रायः 3.5 लक्षरूप्यकाणां लुन्ठनं कृतवन्तः। अभियुक्तानाम् अन्वे
प्रतीकात्मक चित्र


देहरादूनम्, 12 मार्चमासः (हि.स.)। देहरादूनस्य रायपुरक्षेत्रे स्थिते लोकसेवाकेन्द्रे चौर्यस्य घटना प्रकाशं पथे अस्ति। स्कूटरयाने उपविष्टाः त्रयः दुष्टाः लोकसेवाकेन्द्रे भुशुण्ड्याधारेण प्रायः 3.5 लक्षरूप्यकाणां लुन्ठनं कृतवन्तः। अभियुक्तानाम् अन्वेषणार्थम् आरक्षकः व्यस्तः अस्ति।

वाणीविहारनगरे स्थिते जनसेवाकेन्द्रे मंगलवासरे सायंकाले एषा घटना अभवत्, यदा त्रयः दुष्टाः स्कूटरयानेन आगत्य भुशुन्ड्या आधारेण लुन्ठनं कृतवन्तः। दुष्टाः जनसेवाकेन्द्रस्य कर्मचारी अरुणपालस्य न केवलं धनम् अपितु दूरवाणीम् अपि अपहृतवन्तः। अस्मिन् काले दुष्टाः अरुणपालस्य अपि ताडनं कृतवन्तः ।

अरुणपालस्य भ्राता मञ्जीतपालः अवदत् यत् दुष्टाः प्रायः 3.5 लक्षरूप्यकाणि, एका दूरवाणि च लुण्ठितवन्तः। दुष्टान् अनुसृत्य अरुणः तेषां स्कूटरयानं निवारयितुं प्रयत्नं कृतवान्, परन्तु दुष्टाः प्रहारं कृतवन्तः, येन सः पतितः, क्षतिग्रस्तः च अभवत् ।

सम्प्रति तस्य चिकित्सा निरन्तरं वर्तते।

देहरादूनस्य आरक्षकः अधीक्षकः जया बालुनी इत्यनेन उक्तं यत् एषा घटना मंगलवासरे सायं घटिता अस्ति, अतः आरक्षकः अभियुक्तानाम् अन्वेषणं कुर्वन् अस्ति। आरक्षकदलानि निर्मिताः, ये विभिन्नस्थानेषु द्रुतानवेषणं कुर्वन्ति। एतदतिरिक्तं सीसीटीवी-दृश्यानाम् अपि परीक्षणं क्रियते येन दुष्टानां परिचयः कर्तुं शक्यते।

हिन्दुस्थान समाचार / ANSHU GUPTA