Enter your Email Address to subscribe to our newsletters
लखनऊ, 13 मार्चमासः (हि.स.)। भारतीय जनता पार्टी इत्यस्य प्रदेशाध्यक्षः भूपेन्द्रसिंहचौधरी एवं प्रदेशमहासचिवः (संगठनम्) धर्मपालसिंहः च राज्यवासियभ्यः होलीकोत्सवस्य शुभकामनाः दत्तवन्तौ। दलस्य प्रदेशाध्यक्ष भूपेन्द्रसिंहचौधरी होलिकोत्सवपर्वणि शुभकामनासन्देशे उक्तवान् यत् होलीपर्व सत्यधर्मस्य मार्गम् अनुसृत्य विश्वभ्रातृत्वस्य सन्देशं ददाति।
राज्याध्यक्षः अवदत् यत् होलिकोत्सवः असत्यस्य, अधर्मस्य, अन्यायस्य, अत्याचारस्य, आसुरीशक्तेः च दहनेन सह सप्तवर्णीयानन्दस्य महान् उत्सवः अस्ति तथा च शाश्वतसत्यस्य अमरत्वस्य सन्देशः अस्ति। होलिका दहनेन सह अधर्मस्य, असत्यस्य, अन्यायस्य, वैरस्य च प्रत्येकं भावः दग्धः भवेत्, सर्वेषां मनः आनन्देन, उत्साहेन च परिपूर्णं भवेत्। सर्वैः स्वराष्ट्रीयसामाजिकदायित्वैः सह विकसितभारतस्य संकल्पस्य पूर्तये स्वसहभागिता सुनिश्चिता कर्तव्या। सर्वैः उत्साहेन होली-उत्सवम् आचर्य सौहार्दस्य सन्देशः प्रसारणीया।
भाजपाप्रदेशमहासचिवः संजयरायः, सुभाषयदुवंशः, राज्यसभासांसदः अमरपालमौर्यः, प्रदेश-उपाध्यक्षः बृजबहादुरः, प्रदेशप्रवक्ता अवनीशत्यागी, हरीशश्रीवास्तवः, आनन्ददुबे, मनीषशुक्लः, आलोकवर्मा, राकेशत्रिपाठी आदय होलीकोत्सवस्य राज्यवासिभ्यः शुभकामनाः दत्तवन्तः।---------------------
हिन्दुस्थान समाचार / ANSHU GUPTA