सोनाझुर्यां रंगोत्सवस्य उत्साहः , बसंतोत्सवे आनन्दे मग्नाः स्थानीयजनाः पर्यटकाः
कोलकाता, 14 मार्चमासः (हि.स.) ।रङ्गक्रीडायाः निषेधस्य चर्चायाः मध्ये अपि शुक्रवासरे विश्वविख्याते बोलपुरस्य सोनाझूरी-प्रदेशे स्थानीयजनाः पर्यटकाश्च उल्लासेन रङ्गक्रीडां कृतवन्तः। वसन्तोत्सवे प्रभातकालात् एव जनानां विशालसङ्घः समागतः। प्रशासनं सुरक्षाय
सोनाझुर्यां रंगोत्सवस्य उत्साहः , बसंतोत्सवे आनन्दे मग्नाः स्थानीयजनाः पर्यटकाः


कोलकाता, 14 मार्चमासः (हि.स.) ।रङ्गक्रीडायाः निषेधस्य चर्चायाः मध्ये अपि शुक्रवासरे विश्वविख्याते बोलपुरस्य सोनाझूरी-प्रदेशे स्थानीयजनाः पर्यटकाश्च उल्लासेन रङ्गक्रीडां कृतवन्तः। वसन्तोत्सवे प्रभातकालात् एव जनानां विशालसङ्घः समागतः। प्रशासनं सुरक्षायै महतीं संख्यायां पुलिसबलं नियुक्तं कृतवान्।

पूर्वं रविवासरे वनविभागेन एकं अधिसूचना प्रकाशितं या पर्यावरणस्य, अरण्यस्य, वन्यजीव-रक्षणं मनसिकृत्वा सोनाझूरीहाट-प्रदेशे रङ्गक्रीडायाः प्रतिषेधस्य सूचना दत्ता। एतेन सम्बन्धेन पोस्टराः बैनराः च स्थापिताः। एतेन सन्दर्भे वनविभागस्य निर्णयं प्रति बोलपुर-शान्तिनिकेतन-प्रदेशस्य प्रशासनं स्पष्टतां दत्तम् यत्, ‘बोलपुरे शान्तिनिकेतने च क्वचित् अपि रङ्गक्रीडायाः निषेधः नास्ति।’

बोलपुरस्य अतिरिक्तपुलिस-अधीक्षकः राणा मुखोपाध्यायः उक्तवान्— बोलपुर-शान्तिनिकेतनप्रदेशे कोऽपि होलीं क्रीडितुं शक्नोति। पूर्वं वनविभागेन दोलोत्सवस्य दिने सोनाझूरी-जङ्गले अबीर-क्रीडा, वाहन-स्थापनं, ड्रोन-उड्डयनं, छायाचित्रग्रहणं च पूर्णतः प्रतिषिद्धं इति प्रख्यापनं प्रकाशितम्। किन्तु पश्चात् वनविभागस्य मन्त्री हंसदा-वर्यः स्पष्टीकृतवान् यत् सोनाझूरी-प्रदेशे रङ्गक्रीडायाः कोऽपि प्रतिबन्धः नास्ति। सः इदं अपि उक्तवान् यत् केवलं पर्यावरणरक्षणाय सतर्कता पालनं आवश्यकम्। तेन जनानां प्रति अपीलं कृतं यत्— ‘यः यत्र होलीं क्रीडितुम् इच्छति, सः तत्र एव क्रीडतु।’

अनन्तरं प्रशासनमपि घोषणां कृतवान् यत् सोनाझूरी-प्रदेशे कोऽपि विशेषः प्रतिबन्धः नास्ति तथा च शान्तिनिकेतने बोलपुरे च सर्वत्र होलीं क्रीडितुं शक्यते। प्रशासनस्य पक्षतः अपि सूचना दत्ता यत् शान्तिनिकेतन-बोलपुर-प्रदेशस्य पवित्रतां संरक्षितुं तथा च अवैधक्रियाभ्यः विरतं भवितुं आवश्यकम्।

सुरक्षायै प्रशासनं ५००-पुलिसकर्मिणः अपि नियुक्तवान्। अतिरिक्तपुलिस-अधिक्षकः राणा मुखोपाध्यायः उक्तवान्— ‘बोलपुर-शान्तिनिकेतनप्रदेशे होलीपर्वस्य काले सुरक्षा-विषये च सतर्कता पालनीया। पुलिसकर्मिणः सर्वदा जनानां साहाय्यार्थं तत्र उपस्थिताः भविष्यन्ति।’

हिन्दुस्थान समाचार / ANSHU GUPTA