Enter your Email Address to subscribe to our newsletters
जम्मूनगरम्, 15 मार्चमासः (हि.स.)। जम्मूकश्मीराक्षकः, स्वस्य नागरिकप्रक्रिया-कार्यक्रमस्य अंतर्गतं जम्मू मैराथन-2024-25 रन फॉर फन इत्यस्य आयोजनं 16 मार्च 2025 दिनाङ्के गुलशनप्राङ्गणं, जम्मूनगरे करोति। अस्य आयोजनस्य मुख्यं उद्देश्यं सम्यक् स्वास्थ्य, अनुशासनं, सामुदायिकसहभागितां च प्रवर्धयितुं वर्तते। अस्मिन् भव्यकार्यक्रमे बहूनां क्रीडकाः, आरक्षककर्मचारिणः, सामान्यजनाः च भागं गृह्णन्ति इति अपेक्षा अस्ति ।
अस्मिन् अवसरे प्रतिभागिनां कृते आयोजनस्थले निःशुल्कचिकित्साशिबिरस्य अपि आयोजनं क्रियते। सर्वाणि व्यवस्थानि अन्तिमरूपेण निर्धारितानि सन्ति यस्य कृते श्री आनन्दजैन आईपीएस एडीजीपी सशस्त्र-आरक्षकः यः आयोजनस्य अध्यक्षः अपि अस्ति सः अधिकारिभ्यः निर्देशं दत्त्वा आयोजनस्य सफलसञ्चालनार्थं विविधानि कर्तव्यानि नियुक्तवन्तः।
हिन्दुस्थान समाचार / ANSHU GUPTA