मध्यप्रदेशे समर्थनमूल्ये गोधूम क्रयणम् अद्यारभ्य, कृषकेभ्यः 175 रूप्यकाणि अधिलाभांशं प्रदास्यति राज्यसर्वकारः
भोपालम्, 15 मार्चमासः (हि.स.)। मध्यप्रदेशे अद्य (15 मार्चमासः) आरभ्य समर्थनमूल्ये गोधूमस्य क्रयणम् आरभते। सर्वेषु जनपदेषु अस्याः व्यापकस्तरे सज्जाः कृताः। कृषकाणां सुविधायै क्रयणकेन्द्रेषु उपवेशनं, छाया, पटमण्डपः, पेयजलं चेत्यादिनां समुचिता व्यवस्था
गेहूं उपार्जन (फाइल फोटो)


भोपालम्, 15 मार्चमासः (हि.स.)। मध्यप्रदेशे अद्य (15 मार्चमासः) आरभ्य समर्थनमूल्ये गोधूमस्य क्रयणम् आरभते। सर्वेषु जनपदेषु अस्याः व्यापकस्तरे सज्जाः कृताः। कृषकाणां सुविधायै क्रयणकेन्द्रेषु उपवेशनं, छाया, पटमण्डपः, पेयजलं चेत्यादिनां समुचिता व्यवस्था कृता। क्रयणकेन्द्रेषु निःशुल्कं स्लॉट-बुकिङ्ग कर्तुं सहायता-उत्पीठिकाः अपि भविष्यन्ति। कृषकेभ्यः शीघ्रभुगतानस्य व्यवस्था क्रियते।

खाद्यमन्त्री गोविन्दसिंहराजपूतः सूचितवान् यत् मुख्यमन्त्री डॉ. मोहनयादवस्य नेतृत्वे राज्यसर्वकारेण रबीविपणनवर्षस्य २०२५-२६ कृते गोधूमस्य समर्थनमूल्यं प्रतिक्विण्टलरूप्यकाणि २४२५ रुप्यकाणि इति निर्धारितम्। तदतिरिक्तं कृषकाणां कृते प्रतिक्विन्टलं १७५ रुप्यकाणां अधिलाभांशः प्रदत्तः भविष्यति, येन कुलसमर्थनमूल्यं प्रतिक्विण्टलं २६०० रूप्यकाणि भविष्यति।

80 लक्षं टनपरिमितं गोधूम- उपार्जनस्य अनुमानम्

मध्यप्रदेशे अस्मिन् वर्षे लगभग 80 लक्षं मेट्रिकटनपरिमितं गोधूमस्य उपार्जनं अनुमान्यते। अस्य उपार्जनस्य समर्थनमूल्यरूपेण राशि: प्रायशः 19,400 कोटिरूप्यकाणि भविष्यन्ति, यत्र च अधिलाभांशस्वरूपेण कृषकाः 1,400 कोटिरूप्यकाणि अतिरिक्तरूपेण प्राप्स्यन्ति।

हिन्दुस्थान समाचार