राजस्थानस्य 12 जिल्लासु मेघगर्जनस्य वज्रपातस्य च संकेतः, नवसु जिल्लासु प्रवातं चलितुं चेतावनी
जयपुरम् , १५ मार्चमासः (हि.स.)राजस्थानप्रदेशे पश्चिमीविक्षोभस्य प्रभावेन अनेकसु नगरेषु वृष्टिः ओलावृष्टिश्च प्रवर्तते। शुक्रवासरे जयपुरस्य ग्रामीणप्रदेशेषु, सीकर, अल्वर, करौली जिलेषु कतिपये स्थलेषु ओलाः पतिताः। वातवावरणभागस्य मतानुसारं शनिवासरे अपि क
फाइल


जयपुरम् , १५ मार्चमासः (हि.स.)राजस्थानप्रदेशे पश्चिमीविक्षोभस्य प्रभावेन अनेकसु नगरेषु वृष्टिः ओलावृष्टिश्च प्रवर्तते। शुक्रवासरे जयपुरस्य ग्रामीणप्रदेशेषु, सीकर, अल्वर, करौली जिलेषु कतिपये स्थलेषु ओलाः पतिताः। वातवावरणभागस्य मतानुसारं शनिवासरे अपि कतिपयजिल्लासु वृष्टेः प्रवाहः स्थास्यति।

गतचतुर्विंशतिहोरात्रेषु जयपुर, सीकर, अल्वर, करौली, दौसा, श्रीगंगानगर, हनुमानगढ, चूरू, झुंझुनूं, बीकानेर इत्यादिषु कतिपय जिल्लेसु अपराह्णे वातावरणस्य परिवर्तनं जातम्। कतिपय स्थलेषु तीव्रगत्या आन्धिः प्रवहन्ती, सह वृष्टिः अपि जाता। जयपुरस्य ग्रामीणप्रदेशेषु, सीकर, अल्वर, करौली, हनुमानगढ, चूरू इत्यादिषु कतिपयस्थलेषु ओलावृष्टिः अपि अभवत्।

हनुमानगढ, श्रीगंगानगर, अल्वर, भरतपुरजिलेषु कतिपय स्थलेषु रात्रौ विलम्बे पर्यन्तं वृष्टिः प्रवृत्ता।

मौसमकेन्द्रस्य जयपुरस्थानस्य अनुसारं, द्विदिनात् प्रवर्तमानवृष्टेः प्रभावात् दिनस्य उच्चतमतापमानं पञ्चडिग्रीपर्यन्तं पतितम्। एतेन अनेकेभ्यः दिवसात् स्थिता उष्णता निवृत्ता, येन जनाः राहतिं प्राप्तवन्तः।

हनुमानगढ, श्रीगंगानगर इत्यादिषु उच्चतमतापमानं ३० डिग्रीसेल्सियसत: अधः प्राप्तम्। अन्येषु स्थलेषु तापमानं एतद्रूपं आसीत्— चित्तौडगढे ३८.५, दौसायां ३७, जैसलमेरे ३६.१, बाडमेरे ३७.८, अजमेरे ३५.६, जोधपुरे ३६.६, चूरौ ३४.८, सिरोही ३४.६, बीकानेरे ३४.४ डिग्रीसेल्सियस।

मौसमकेन्द्रस्य अनुसारं अद्यापि अनेकेषु जिलेषु वृष्टेः प्रभावः स्थितः भविष्यति। जयपुरमौसमकेन्द्रेण अजमेर, अल्वर, भरतपुर, दौसा, धौलपुर, जयपुर, झुंझुनूं, सीकर, बीकानेर, चूरू, हनुमानगढ, श्रीगंगानगर इत्येषु मेघगर्जनं वज्रपातं च विषयीकृत्य संकेतं प्रकाशितम्।

बीकानेर, जयपुर, भरतपुरसंभागे, जोधपुरक्षेत्रे अपराह्णे लघुवृष्टेः सम्भावना अस्ति।

वातावरणविभागेन नवसु जिलेषु आन्ध्याः सम्भावनां दृष्ट्वा यलो अलर्ट प्रकाशितः। अल्वर, दौसा, धौलपुर, जयपुर, झुंझुनूं, सीकर, चूरू, हनुमानगढ, श्रीगंगानगर इत्येषु ३०-४० कि.मी प्रति घण्टे गतिसम्पन्नः वायुः वहिष्यति।

भरतपुरे ओलावृष्टेः कारणेन अपि पीतसंकेतः प्रकाशितः।

हिन्दुस्थान समाचार / ANSHU GUPTA