Enter your Email Address to subscribe to our newsletters
अयोध्या, 16 मार्चमासः (हि.स.)।
पुलिस-महानिदेशकः (डीजीपी) प्रशान्तः कुमारः रविवासरे रामनगर्यां अयोध्यां प्राप्तः। तत्र सः हनुमानगढ़्यां हनुमतः दर्शनं पूजनं च अकुरुत। ततः परं सः रामजन्मभूमौ रामललादर्शनं पूजनं च करिष्यति।
हनुमानगढ़ि-मन्दिरस्य पुजारी हेमन्तदासः उक्तवान् यत् डीजीपी प्रशान्तः कुमारः सपत्नीकं हनुमान-महाराजस्य दर्शनं पूजनं च अकरोत्। अस्मिन् अवसरे तस्मै आशीर्वाद-स्वरूपेण हनुमान-महाराजस्य प्रतिमा तथा रामनाम समर्पितम्। तेन सह पुलिसमहानिरीक्षकः प्रवीण कुमारः, वरिष्ठ-पुलिस-अधिक्षकः राजकरन-नय्यरः सहितः पुलिस-अधिकारीणः उपस्थिताः आसन्।
अयोध्यां प्राप्तः पुलिसमहानिदेशकः प्रशान्तः कुमारः रामनवमी-महोत्सवस्य निमित्तं अधिकृतैः सह सभां कर्तुं शक्नोति। अयोध्यायां ३० मार्चत: आरभ्य रामनवमी-महामेला प्रारभिष्यते, यस्य सफल-संपन्नतायै प्रशासनं सज्जं अस्ति।
हिन्दुस्थान समाचार