Enter your Email Address to subscribe to our newsletters
सीतापुरम्, 16 मार्चमासः (हि.स.)।भारतीय-जनता-पक्षस्य प्रदेश-नेतृत्वेन बहुप्रतीक्षित-पक्ष-जिला-अध्यक्षाणां नामानि रविवासरे घोषितानि। सीतापुरतः वर्तमान-जिला-अध्यक्षः राजेश-शुक्लः पुनः अस्मिन पदे प्रतिष्ठापितः। प्रदेश-महामन्त्री अवध-क्षेत्रस्य प्रभारी संजय-राय पूर्व-मन्त्री रामपति-शास्त्री च संध्यायां सीतापुरं प्राप्तवन्तौ। तयोः आगमनात् पूर्वं भाजपा-कायालये पदाधिकारीणां सभा आहूता आसीत्। आगत्य तौ कार्यकर्तृणां मध्ये पक्षस्य निर्णयं उद्घोष्य राजेश-शुक्लस्य नाम्ना घोषणा कृतवन्तौ।
पुनः एकवारं राजेश-शुक्लस्य जिला-अध्यक्षत्वं प्राप्ते सर्वे नेता कार्यकर्तारः च प्रसन्नतां व्यक्तवन्तः। पक्षेन पूर्वं १५ सितम्बर २०२३ तमे दिनाङ्के राजेश-शुक्लाय अध्यक्ष-पदस्य दायित्वं दत्तं यः १८ मासान् यावत् कुशलतया पदं धारयति। अध्यक्ष-पदस्य घोषणायाः अनन्तरं राजेश-शुक्लः पक्ष-नेतृत्वं प्रति धन्यवादं प्रकट्य हिन्दुस्थान-समाचारस्य माध्यमेन उक्तवान् यत् वरिष्ठ-नेतॄणां निर्देशनं मार्गदर्शनं च अनुसृत्य सर्वैः सह समन्वयं स्थापयित्वा संगठन-कार्यं प्रवर्तयिष्यते।
राजेश-शुक्लः १९९५ तमे वर्षे राजनैतिक-क्षेत्रे प्रविश्य इस्माइलपुर-वार्डतः सभासद-पदं प्राप्य स्वस्य राजनैतिक-यात्राम् आरब्धवान्। ततः अनन्तरं तस्य माता अपि सभासद-पदा अभवत्। २०१७ तमे वर्षे पक्षेन तं सीतापुर-नगर-पालिका-परिषद्-अध्यक्ष-पदस्य निर्वाचनाय प्रत्याशितः, किन्तु सः न्यून-मतेन पराजितः। सीतापुरस्य पूर्व-सांसदः राज्य-पिछड़ा-वर्ग-आयोगस्य अध्यक्षः राजेश-वर्मा, राष्ट्रीय-उपाध्यक्षः पूर्व-सांसदः रेखा-वर्मा, शहरी-नगर-विकास-राज्यमन्त्री राकेश-राठौर-गुरु, कारागार-राज्यमन्त्री सुरेश-राही, दर्जा-प्राप्त-राज्यमन्त्री गिरीश-मिश्रः, मिश्रिख-सांसदः अशोक-रावतः, विधायकः ज्ञान-तिवारी, शशांक-त्रिवेदी, रामकृष्ण-भार्गव, निर्मल-वर्मा, मनीष-रावत, एमएलसी पवन-सिंह-चौहान, पूर्व-विधायकः सुनील-वर्मा, पूर्व-एमएलसी भरत-त्रिपाठी, राकेश-सिंह इत्यादयः सर्वे नेता प्रसन्नतां प्रकट्य बधां प्रदत्तवन्तः।
पक्ष-नेतारः उक्तवन्तः यत् राजेश-शुक्लस्य नेतृत्वे पक्षः अग्रे गमिष्यति, २०२७ तमे वर्षे जयमपि प्राप्तुं शक्नोति। उल्लेखनीयं यत् पञ्च-मासात् पूर्वं संगठन-पर्वस्य अन्तर्गतं संगठनस्य चुनाव-प्रक्रिया निश्चितं जातम्। पक्षस्य सदस्यता-अभियानं सक्रिया-सदस्यत्व-प्रक्रिया च सम्पूर्णा जाता। अध्यक्ष-पदस्य दावेदारी-प्रक्रियायां सीतापुरे ३७ जनाः नामांकन-पत्रं पूरितवन्तः। गहन-मन्थनं कृत्वा पक्ष-नेतृत्वेन पुनः राजेश-शुक्लः एव नियुक्तः।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA