खाद्यप्रारूपाणाम् अन्वेषणाय मालदहे स्थापयिष्यते खाद्य सुरक्षा प्रयोगशाला
मालदहः, 16 मार्चमासः (हि.स.)कोलकाता-सिलीगुड़ीमध्ये स्थापितयोः खाद्यसुरक्षापरिक्षणशालयोः अनन्तरम् अधुना मालदह-जनपदे अपि खाद्यसुरक्षापरिक्षणशाला स्थापितं भविष्यति। वर्तमानकाले राज्ये कोलकाता-सिलीगुड़ीमध्ये खाद्यसुरक्षापरिक्षणशाले स्तः। किन्तु इदानीं मा
खाद्य


मालदहः, 16 मार्चमासः (हि.स.)कोलकाता-सिलीगुड़ीमध्ये स्थापितयोः खाद्यसुरक्षापरिक्षणशालयोः अनन्तरम् अधुना मालदह-जनपदे अपि खाद्यसुरक्षापरिक्षणशाला स्थापितं भविष्यति। वर्तमानकाले राज्ये कोलकाता-सिलीगुड़ीमध्ये खाद्यसुरक्षापरिक्षणशाले स्तः। किन्तु इदानीं मालदह-जनपदे तृतीया खाद्यसुरक्षापरिक्षणशाला निर्मीयते।

नवपरिक्षणशालायाः आवश्यकता

खाद्यसुरक्षाविभागस्य अधिकारीणः मालदहस्य समीपजनपदेषु, होटेल-भोजनालय-खाद्यदुकानासु च निरीक्षणं कुर्वन्ति। एतेषु स्थानेषु संकलितानि खाद्यानां नमूनानि परीक्षणाय कोलकाता-सिलीगुड़ीस्थ शालयोः प्रेष्यन्ते। किन्तु तत्र परीक्षणस्य प्रतिवेदनं विलम्बेन आगच्छति। अतः नवपरिक्षणशालायाः निर्माणे, खाद्यानां नमूनानां परीक्षणं शीघ्रं भविष्यति।

खाद्यगुणवत्तायाः सुनिश्चितता

मालदह-जनपदे विभिन्नेषु होटेल-भोजनालयेषु निर्मीयमानं भोजनं गुणवत्तायुक्तं भविष्यति। खाद्यसुरक्षाविभागेन विभिन्नदुकानाभ्यः संकलितानि खाद्यानां नमूनानि परीक्षणस्य समस्यायाः समाधानाय, मालदह-जनपदस्य खाद्यसुरक्षाविभागेन राज्यसर्वकारं नूतनशालानिर्माणाय प्रार्थितम्। राज्यसर्वकारेण एषा योजना स्वीकृता।

स्थापनायाः पुष्टि

मालदह-जनपदस्य जिलाधिकारी नितिनसिंघानियेन खाद्यसुरक्षापरिक्षणशालायाः स्थापनं सुनिश्चितम्। सः उक्तवान् यत् - कोलकाता-सिलीगुड़ीअनन्तरं मालदहमध्ये अपि खाद्यसुरक्षाशाला निर्मीयते। राज्यसर्वकारेण अनुमति प्रदत्ता।

स्थानचयनं

सः अपि उक्तवान् यत् - इयं प्रयोगशाला पियासबाड़ी, महदीपुरग्रामपञ्चायत, इंग्लिशबाजारमध्ये निर्मीयते। अस्य निर्माणाय स्थानं पूर्वमेव निश्चितम्।

मालदहजनपदे खाद्यदुकानानां वर्धमानसंख्या

पिछले वर्षेषु मालदहजनपदे, विशेषतः मालदहनगरे, खाद्यदुकानानां संख्या तीव्रं वर्धिता। अत्र शताधिकानि होटेल-भोजनालयानि सन्ति। एतेषु अपि फुटपाथे बहवः खाद्यविक्रेतारः सन्ति, यत्र दिवसस्य सर्वकाले जनसङ्घः दृश्यते।

---------------

हिन्दुस्थान समाचार