Enter your Email Address to subscribe to our newsletters
-व्यवसायिक प्रतिद्धंदतायां कृता हत्या
पूर्वी चंपारणम्, 16 मार्चमासः (हि.स.)।जिल्लायाः कोटवा थाना क्षेत्रे युवकस्य शमशादस्य हत्यायाः विषयं पुलिसेन सफलतया उद्भावितम्। युवकस्य हत्या व्यवसायिक-प्रतिद्वन्द्वितायाः कारणात् कृता।
कोटवा-थाना-क्षेत्रे १३ मार्च दिनाङ्के प्रभाते गढ़वा-ग्रामस्य नहर-समीपे मक्के-क्षेत्रतः १६ वर्षीयस्य शमशाद आलमस्य शवं पुलिसेन प्राप्तम्। ततः पश्चात् एसपी स्वर्ण प्रभातस्य निर्देशे डीएसपी सदर-२ नेतृत्वे विशेष-जांच-दलम् गठितम्। एषा दलः केवलं ४८ घण्टाभ्यन्तरे हत्या-विषयस्य उद्घाटनं कृत्वा आरोपी मुमताज आलम् गृहीतवान्। तथा च हत्या-कर्मणि प्रयुक्तं चक्कुं, रक्तयुक्तं वस्त्रं, मृतकस्य दूरभाषयन्त्रं च अधिगृहीतम्।
सदर डीएसपी-२ जितेश पाण्डेय अवदत् यत् मृतकः राजपुर मठिया-ग्राम-निवासी अफसर मिया-पुत्रः शमशादः तथा आरोपी मुमताजः उभौ अपि समानस्थले मुर्ग-विक्रय-व्यवसायं कुर्वन्तौ आस्ताम्। किन्तु शमशादेन न्यून-मूल्येण मुर्ग-विक्रयात् मुमताजस्य व्यवसाये बाधा जाता। अतः क्रुद्धः सः शमशादस्य हत्यां कृतवान्।
हिन्दुस्थान समाचार