Enter your Email Address to subscribe to our newsletters
कटरा, 16 मार्चमासः (हि.स.)।श्री माता वैष्णो देवी विश्वविद्यालये एनसीसी-कैडेट्स-अर्थं एनसीसी-समन्वयकेन डॉ. वरुण-दत्तेन आयोजितं द्विसप्ताहिकं योग-कार्यशाला सफलतया सम्पन्ना।
एषा कार्यशाला दैनन्दिन-जीवने योगस्य महत्त्वं बोधयितुं आयोजितम्। सत्राणां संचालनं गुरमेल-नामक-योगाचार्येण कृतम्, यस्य मार्गदर्शनतः कैडेट्स विविध-योगासनानि अभ्यास्य योगस्य जीवनचर्या-रूपत्वं ज्ञातवन्तः। कार्यशालायां एनसीसी-कैडेट्स उत्साहपूर्वकं सहभागं कृत्वा, प्रत्येक-सत्रे सक्रियतया भागं गृहीत्वा योगस्य लाभान् अनुभवितवन्तः। समापन-सत्रे एसएमवीडीयू-विश्वविद्यालयस्य कुलपति प्रो. प्रगति-कुमार कैडेट्स-अन्येषां च समर्पण-भावनां प्रशंस्य योगाभ्यासं निरन्तरं कर्तुं प्रेरितवान्।
सः अपि उक्तवान् यत् – योगः केवलं व्यायामः न, अपितु सः मूल्यवान् अनुशासनः यः शरीर-स्वास्थ्यं, मनः-एकाग्रता, आन्तरिक-शान्तिं च वर्धयति। अस्मिन अवसरं एसएमवीडीयू-विश्वविद्यालयस्य शैक्षणिक-मामलानां डीन प्रो. बलबीर-सिंह उपस्थितः आसीत्। सः अपि कार्यशालायाः सफलतायै सैनिकच्छात्राणाम् आयोजकानां च प्रयत्नान् प्रशंसितवान्।
हिन्दुस्थान समाचार / ANSHU GUPTA