Enter your Email Address to subscribe to our newsletters
चराइदेवः (असम), 16 मार्चमासः (हि.स.)। असमस्य चराइदेव जनपदस्य मथुरापुर क्षेत्रे एका भीषणमार्गदुर्घटना अभवत्, यस्मिन् २३ वर्षीयः जयंत कुर्मी नामकः युवकः स्थले एव मृतः अभवत्। पुलिस विभागेन रविवासरे सूचितं यत् बिचानगर क्षेत्रे एका तीव्रवेगयुक्तवाहनं नियन्त्रणं हारित्वा एका बाइकं तीव्रतया अघट्टयत्। अस्मिन दुर्घटनायां बहवः अपि गम्भीररूपेण आहताः जाताः, ये चराइदेव जिला चिकित्सालये उपचाराय भर्तीकृताः। तेषां स्थितिः अतीव चिन्ताजनका अस्ति। दुर्घटनायाः सम्बन्धे पुलिस विभागेन उक्तं यत् उक्तं वाहनम् (AS-04 AH 1873) चराइदेव जनपदस्य संयुक्तस्वास्थ्यनिदेशकेन सम्बद्धम् अस्ति।
हिन्दुस्थान समाचार