Enter your Email Address to subscribe to our newsletters
रायपुरम्, 17 मार्चमासः (हि.स.)।मुख्यमंत्री विष्णुदेवसायः अद्य सोमवासरे दिल्लीं प्रति प्रस्थानं करिष्यति।
सायः अपराह्णे २:१५ वादने रायपुरविमानपत्तनात् दिल्लीं प्रति उड्डयनं करिष्यति। अस्मिन् काले तस्य प्रधानमंत्री नरेंद्रमोदी तथा गृहमंत्री अमितशाहः इत्येताभ्यां सह महत्वपूर्णम् उपवेशनं भवितुम् अर्हति। तदनु च मुख्यमंत्रीः केंद्रीयमंत्री शिवराजसिंहचौहानस्य पुत्रस्य विवाहसमारोहेऽपि सम्मिलितः भविष्यति।
मुख्यमंत्री सायः प्रधानमंत्रिणा नरेंद्रमोदिना सह तस्य ३० मार्चे नियोजितं छत्तीसगढ़भ्रमणविषये चर्चां करिष्यति। तथैव गृहमंत्रिणा अमितशाहेन सह मिलनकाले बस्तरविकासस्य परियोजना, नक्सलउन्मूलनस्य रणनीतिः, आधारभूतसंरचनायाः विस्तारः, महिलासशक्तिकरणं च इत्येतेषु महत्वपूर्णेषु विषयेषु चर्चायाः सम्भावना अस्ति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA