Enter your Email Address to subscribe to our newsletters
पानीपतम्, 17 मार्चमासः (हि.स.)। भाजपा-उच्चकमाण्डेन पुनः एकवारं पानीपतजनपदस्य नेतृत्वं दुष्यन्तभट्टाय समर्पितम्। सोमवासरे जनपदाध्यक्षस्य नाम दलेन घोषितम्। रविवासरे नामाङ्कनस्य समये २८ आवेदनानि आसन्। अन्वेषणानन्तरं केवलं ४ नामानि एव पटले स्थापितानि आसन् । वर्तमान अध्यक्ष: दुष्यन्त भट्ट इत्यस्य अतिरिक्तं महिलापक्षेण सह सम्बद्धानां जनपदमहासचिवः कृष्णचौक्करस्य पूर्वजनपदसचिवस्य रविन्द्रभाटियायाः, सुनीतागोयलस्याःच नाम समावेशितम्। एतेषु वर्तमानस्य जनपदाध्यक्षस्य दुष्यन्तभट्टस्य आशा सर्वाधिका प्रबला इति मन्यते स्म । प्रायः एकवर्षपूर्वं दुष्यन्तभट्टः प्रथमवारं जनपदाध्यक्षः कृतः ।
डॉ. अर्चना गुप्ता इत्यस्याः राज्यमहासचिवः कृतः ततः परं भट्टः २०२४ तमस्य वर्षस्य जनवरी-मासस्य ३ दिनाङ्के जनपदाध्यक्षः अभवत् । भट्टः पूर्वसीएम-केन्द्रीयमन्त्री मनोहरलालस्य उत्तमपुस्तकेषु अस्ति, वरिष्ठोपनगराध्यक्षः अपि अभवत्।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA