Enter your Email Address to subscribe to our newsletters
हमीरपुरम्, 17 मार्चमासः (हि.स.)।थलसेनायाः अग्निवीरभर्तीमध्ये पात्रतानुसार द्वयोः भिन्नयोः श्रेण्योः अन्तर्गतं आवेदनं कर्तुं शक्यते। थलसेनानियुक्तये कार्यालयस्य हमीरपुरनिदेशकः कर्नल बी.एस. भण्डारी अवदत् यत् थलसेनायां अग्निवीराणां भर्तीं कृते ऑनलाइनपंजीकरणं द्वादशे मार्चतिथौ आरब्धम्, यस्य अन्तिमतिथिः अप्रेलमासस्य दशमदिनांकः निर्दिष्टः ।
अस्मिन् नियोजने अभियर्थिनः स्वपात्रतानुसार कस्यापि द्वयोः श्रेण्योः कृते आवेदनं कर्तुं शक्नुवन्ति। द्वयोः विकल्पयोः इच्छुकाः अभियर्थिनः द्वयोः श्रेण्योः कृते पृथक् पृथक् आवेदनपत्रं पूरयितव्यम्।
कर्नल बी.एस. भण्डारी उक्तवान् यत् श्रेण्याः प्राथमिकता अभियर्थिना आवेदनं कर्तुं काले एव निर्दिष्टव्या। भर्तीरेली समाप्ते पश्चात् अन्तिमं विकल्पं पृष्टं भविष्यति। इच्छुकाः पात्रयुवानः ज्वाइनइंडियनआर्मी.एनआईसी.इन (joinindianarmy.nic.in) इत्यस्मिन् जालपृष्ठे प्रविश्य आवेदनं कर्तुं शक्नुवन्ति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA