बिहारस्य समधिकतरजिल्लासु 21 तः 23 मार्चमासस्य अवधौ वृष्टिः-वज्रपातश्च संकेतः
पटना, 18 मार्च (हि.स.)। पटना-स्थितं मौसमविज्ञानकेन्द्रं वदति यत् 21 तः 23 मार्चपर्यन्तं बिहारस्य अनेकेषु जनपदेषु वृष्टिः वज्रपातश्च सम्भाव्यते। मौसमविज्ञानकेन्द्रस्य अनुसारं – 21 मार्च दिने – बिहारस्य सुपौलः, अररिया, किशनगंजः, सहरसा, मधेपुरा, पूर्ण
बिहारस्य समधिकतरजिल्लासु 21 तः 23 मार्चमासस्य अवधौ वृष्टिः-वज्रपातश्च संकेतः


पटना, 18 मार्च (हि.स.)। पटना-स्थितं मौसमविज्ञानकेन्द्रं वदति यत् 21 तः 23 मार्चपर्यन्तं बिहारस्य अनेकेषु जनपदेषु वृष्टिः वज्रपातश्च सम्भाव्यते।

मौसमविज्ञानकेन्द्रस्य अनुसारं –

21 मार्च दिने – बिहारस्य सुपौलः, अररिया, किशनगंजः, सहरसा, मधेपुरा, पूर्णिया, कटिहारः, पटना, गया, जहानाबादः, नालंदा, नवादा, शेखपुरा, लखीसरायः, बेगूसरायः, भागलपुरं, बांका, जमुई, मुंगेरं, खगड़िया इत्येषु वृष्टेः सम्भावना अस्ति।

22 मार्च दिने – बक्सरं, भोजपुरं, रोहतासः, भभुआ, औरंगाबादः, अरवलः, पटना, गया, जहानाबादः, नालंदा, नवादा, शेखपुरा, लखीसरायः, बेगूसरायः, भागलपुरं, बांका, जमुई, मुंगेर, खगड़िया इत्येषु लघ्वीं मध्यमां च वृष्टिं भवितुमर्हति।

23 मार्च दिने – भागलपुर, बांका, जमुई, मुंगेर, खगड़िया, सुपौल, अररिया, किशनगंज, सहरसा, मधेपुरा, पूर्णिया, कटिहार इत्येषु वृष्ट्या सह मेघगर्जनं वज्रपातश्च सम्भाव्यते।

वातावरणविभागस्य अनुसारं, आगामिनि 48 घण्टेषु राज्यस्य अधिकभागेषु अधिकतमतापमानं 32 तः 38 डिग्री सेल्सियसपर्यन्तं भविष्यति। बांका, मुंगेर, भागलपुर, शेखपुरा, खगड़िया, बेगूसराय इत्यादिषु तापमानं सामान्यतया अधिकं भवितुमर्हति। वातावरणविभागेन जनानां कृते चेतावनी दत्ता यत् 23 मार्च दिने सम्भावितवज्रपातस्य तीव्रवृष्टेः च समये सावधानीं कुर्वन्तु, सुरक्षितस्थानेषु च वसन्तु।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA