Enter your Email Address to subscribe to our newsletters
पटना, 18 मार्चमासः (हि.स.)।मुख्यमंत्री नीतीश कुमारः अद्य स्वस्य निवासस्थानात् रिमोट्-माध्यमेन 'हर घर नल का जल' निश्चयान्तर्गतं ७१६६ कोटि ६ लक्ष-रूप्यकाणां व्ययेन निर्मितानां जलापूर्तेः योजनानां तथा च भवन-संरचनानां उद्घाटनं शिलान्यासं च कृतवान्। एतेषु सन्दर्भेषु ८३ कोटि रूप्यकाणां व्ययेन निर्मीयमानस्य लोक-स्वास्थ्य-अभियन्त्रण-विभागस्य मुख्यालय-भवनस्य अपि शिलान्यासं कृतवान्।कार्यक्रमस्य अवसरें मुख्यमन्त्रिणा उक्तं यत् यासां योजनानां शिलान्यासः कृतः, ताः समये समाप्ताः भवन्तु। 'हर घर नल का जल' योजना उत्तमरीत्या कार्यान्वितं क्रियताम्। सर्वे वस्तूनि सम्यक् अनुरक्षिताः भवन्तु। अस्माकं लक्ष्यं अस्ति यत् जनानां निमित्तं नित्यं निर्मल-पेयजलं उपलब्धं भवेत्, कस्मिन्चन प्रकारेण विघ्नः न भवेत्।एषु अवसरेषु लोक-स्वास्थ्य-अभियन्त्रण-विभागस्य प्रधान-सचिवेन पंकज-कुमारेन मुख्यमन्त्रिणं हरित-पादपं प्रतीक-चिह्नं च समर्प्य सत्कारः कृतः।पूर्वं कार्यक्रमे प्रधान-सचिवेन उक्तं यत् राज्यस्य जनानां निमित्तं नित्यं निर्बाधं च जलापूर्तिः सुनिश्चितीक्रियते। राज्य-सरकारः राष्ट्रीय-मानकानुसारं सर्वेभ्यः ग्राम्य-परिवारेभ्यः प्रतिदिनं प्रति-व्यक्तिं ७० लीटर-जलस्य आपूर्तिं करोति, यत् राष्ट्रीय-सामान्यतया १६ लीटर-अधिकं अस्ति। 'हर घर नल का जल' निश्चयान्तर्गतं निर्मितानां सर्वासां जलापूर्तेः योजनानां सञ्चालनं, संरक्षणं च लोक-स्वास्थ्य-अभियन्त्रण-विभागेनैव क्रियते।मुख्यमन्त्रिणः नीतीश-कुमारस्य 'हर घर नल का जल' योजना सम्पूर्णे देशे प्रशंस्यते।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA