Enter your Email Address to subscribe to our newsletters
-विश्व स्तरे चयनितेषु नगरेषु वाराणस्याः अपि नाम, एशियायाः एकमात्रं नगरम्
वाराणसी, 18 मार्चमासः (हि.स.)।वाराणस्यां जनसमूह-प्रबन्धनाय नगर-निगमेन महत्त्वपूर्णा पहल क्रियते। अस्य कार्यस्य कृते टोयोटा मोबिलिटी फाउण्डेशन इति कार्यकारी संस्था नियुक्ता अस्ति। एषा योजना नगरस्य वर्धमान-जनसङ्ख्यां तथा यातायातस्य वर्धमान-दबावं दृष्ट्वा आरब्धा। विशेषं तु यत्, वाराणसी इयं योजना अन्तर्गतं विश्वस्तरे चयनितेषु त्रिषु नगरेषु अन्यतमः अस्ति, यस्य गौरवम् अस्ति यत् एषः एशियायाः एकमेवः नगरः अस्ति।
वाराणसी भारतस्य प्राचीनतमं धार्मिक-नगरं इति प्रसिद्धम्। प्रतिदिनं लक्षशः श्रद्धालवः पर्यटकाः च अत्र आगच्छन्ति। अस्य परियोजनायाः अन्तर्गतं पदचारीणां कृते जनसमूह-प्रबन्धन-प्रौद्योगिकी उपयोगः भविष्यति। एतेन केवलं श्रद्धालुभ्यः पर्यटकाभ्यः च सुखसुविधा भविष्यति, अपि तु स्थानीया नागरिकाः वृद्धाः, महिलाः दिव्याङ्गजनाः च अपि लाभं प्राप्स्यन्ति। अस्मिन परियोजनायाः कृते अन्तर्राष्ट्रीयस्तरे १० प्रमुखाः कम्पन्यः चयनिताः, यासु सिटीडेटा इङ्क्, फैक्टल एनालिटिक्स, आर्केडिश, प्रमेय कन्सल्टिंग इत्यादयः अन्तर्भवन्ति।
एषां कम्पन्यानां कार्यं भविष्यति— पदचारिणां वाहनानां गतिशीलता-निगराणी, स्थानिक-विश्लेषणं, वास्तविक-समय-संयोज्यता, सुरक्षा, त्रि-आयामीय-रेखीय-संवेदी तथा यन्त्र-अध्ययन द्वारा जनसमूहस्य उत्तम-प्रबन्धनम्। टोयोटा मोबिलिटी फाउण्डेशन एषां कार्याणां कृते त्रिमिलियन-डॉलर व्ययं करिष्यति तथा अस्य आरम्भः गतवर्षात् एव जातः।
नगर-आयुक्तः अक्षतवर्मा एतत् वाराणस्याः कृते ऐतिहासिकं पथं इति उक्तवान्। एतेन केवलं नगरस्य यातायात-व्यवस्था सुधारिष्यते, अपितु इयं योजना विश्वतः आगच्छतां श्रद्धालूनां पर्यटकानां च कृते अपि लाभदायिका भविष्यति। महापौरः अशोककुमार-तिवारी नगरवासिभ्यः एतस्य कार्यस्य आरम्भे अभिनन्दनं दत्तवान्। सः अवदत् यत् वाराणसी प्राचीनतमं नगरी अस्ति, धार्मिकत्वात् लक्षशः श्रद्धालवः पर्यटकाः च अत्र आगच्छन्ति। अतोहि, पदचारीणां यातायात-प्रबन्धनं परिस्थितिपूर्णं कार्यं भवति। नगरे अस्यां प्रौद्योगिक्याः उपयोगेन पदचारिणः लाभं प्राप्स्यन्ति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA