कोकराझाडे परीक्षायाः सुचारू संचालनाय निषेधाज्ञा सूचिता
कोकराझाडः (असमः), 22 मार्चमासः (हि.स.) असमविद्युतवितरणसंस्थायां सहायकलेखाधिकारीपदस्य निमित्तम् आयोजिता एपीएससी परीक्षायाः सुचारुसञ्चालनं तथा शान्तिपूर्वकं सम्पादनं सुनिश्चितुं, जिला-प्रशासनेन भारतीय-राष्ट्रियसुरक्षासंहितायाः धारा 163 अन्तर्गतं निषेधा
कोकराझाडे परीक्षायाः सुचारू संचालनाय निषेधाज्ञा सूचिता


कोकराझाडः (असमः), 22 मार्चमासः (हि.स.) असमविद्युतवितरणसंस्थायां सहायकलेखाधिकारीपदस्य निमित्तम् आयोजिता एपीएससी परीक्षायाः सुचारुसञ्चालनं तथा शान्तिपूर्वकं सम्पादनं सुनिश्चितुं, जिला-प्रशासनेन भारतीय-राष्ट्रियसुरक्षासंहितायाः धारा 163 अन्तर्गतं निषेधाज्ञा प्रवर्तिता अस्ति। परीक्षाकेन्द्राणां 100 मीटर-परिधेः अन्तर्गतं पञ्चाधिकजनानां समूहस्य एकत्रीकरणं, लाउडस्पीकर- उपयोगः, तथा तीव्रनादस्य निषेधः कृतः अस्ति। एषः प्रतिबन्धः रविवासरे सम्पूर्णे कोकराझारजिले प्रवर्तिष्यते।

परीक्षासमयःपरीक्षा द्वौ भागौ विभाजिता अस्ति—प्रथमपली - प्रातः 9.00 वादनतः मध्यान्ह 12.00 वादनपर्यन्तम्।द्वितीयपली - मध्यान्ह 1:30 वादनतः सायं 4:30 वादनपर्यन्तम्।

परीक्षायाः आयोजनं कोकराझार-राजकीय-महाविद्यालये तथा कोकराझार-कन्या-उच्चतर-माध्यमिक-विद्यालये भविष्यति। नियमानां अपवादः किन्तु, परीक्षाकेन्द्रे नियुक्ताः पुलिसकर्मचारिणः, सैन्यबलाः, अर्धसैनिकबलाः, परीक्षा-कर्तव्ये नियुक्ताः अधिकारी-कर्मचारिणः, तथा निषिद्ध-परिसरे स्थितानि व्यापनसंस्थानि अपि एते नियमाः न प्रवर्तिष्यन्ते। शान्तिस्थापनाय तथा परीक्षायाः सुचारुसञ्चालनाय एषः आदेशः एकतर्फेण निर्गतः अस्ति। एषः आदेशः तत्क्षणमेव प्रवर्तिष्यते तथा नूतननिर्देशपर्यन्तं प्रभावी भविष्यति। एषा निषेधाज्ञा 23 मार्च 2025 तः प्रवर्तिष्यते।

हिन्दुस्थान समाचार / ANSHU GUPTA