Wednesday, 26 March, 2025
मार्गदुर्घटनायां त्रयाणां मृत्युः
लोहरदगाः, २३ मार्च मासः (हि.स.)। सदरथानाक्षेत्रस्य कैमोमहुआटोलीसमीपे बॉक्साइटयुक्तस्य ट्रकस्य चपेटे पतिताः त्रयाः युवकाः मृत्युमुपगताः। सूचनानुसारं रविवासरे सायंकाले विलम्बे बॉक्साइटयुक्तेन ट्रकेन बाइकसवारत्रयम् अत्यन्तं प्रहारितम्। स्थानीयजनाः ट्रक
मार्गदुर्घटनायां त्रयाणां मृत्युः


लोहरदगाः, २३ मार्च मासः (हि.स.)। सदरथानाक्षेत्रस्य कैमोमहुआटोलीसमीपे बॉक्साइटयुक्तस्य ट्रकस्य चपेटे पतिताः त्रयाः युवकाः मृत्युमुपगताः। सूचनानुसारं रविवासरे सायंकाले विलम्बे बॉक्साइटयुक्तेन ट्रकेन बाइकसवारत्रयम् अत्यन्तं प्रहारितम्।

स्थानीयजनाः ट्रकस्य चपेटे पतितान् युवकान् सदर चिकित्सालयं प्रति प्रेषितवन्तः, यत्र वैद्यकाः तान् मृतान् घोषितवन्तः।

दुर्घटनायाः अनन्तरं ट्रकचालकः खलासी च स्थलात् पलायितवन्तः। घटनायाः सूचना प्राप्य सदरथानापुलिस् स्थलमुपगम्य अनुसन्धानकार्ये संलग्ना अस्ति।

---------------

हिन्दुस्थान समाचार