राजौर्यां विश्वजलदिवसे विशेषव्याख्यानम्
जम्मू, २३ मार्च मासः (हि.स.)। जलस्य संरक्षणं जलसंसाधनानां च सततप्रबन्धनं विषये जागरूकतावृद्ध्यर्थं भारतीयसेनया राजौर्यां सोलकिग्रामस्य शासकीयउच्चतरमाध्यमिकविद्यालये विश्वजलदिवसे विशेषव्याख्यानस्य आयोजनं कृतम्। अस्मिन कार्यक्रमे पञ्च शिक्षकाः पञ्चचत्
राजौरी में विश्व जल दिवस पर विशेष व्याख्यान


जम्मू, २३ मार्च मासः (हि.स.)। जलस्य संरक्षणं जलसंसाधनानां च सततप्रबन्धनं विषये जागरूकतावृद्ध्यर्थं भारतीयसेनया राजौर्यां सोलकिग्रामस्य शासकीयउच्चतरमाध्यमिकविद्यालये विश्वजलदिवसे विशेषव्याख्यानस्य आयोजनं कृतम्।

अस्मिन कार्यक्रमे पञ्च शिक्षकाः पञ्चचत्वारिंशत् छात्राश्च भागं गृहीतवन्तः। व्याख्यानमध्ये दैनन्दिनजीवने जलस्य महत्त्वं जलस्य अभावस्य च चुनौतीषु विशेषं ध्यानं दत्तम्।

सत्रे जलसंरक्षणस्य व्यवहारिकउपायाः उल्लिखिताः, यत्र वर्षाजलसंग्रहणं, उत्तरदायी उपयोगः, अभिनवजलप्रबन्धनप्रविधयश्च सम्मिलिताः। चर्चायां वैश्विकजलसंकटं भारतस्य जलसुरक्षायाः प्रवर्तनानि च समाविष्टानि। प्रतिभागिनः भावीपीढ्यः कृते अस्य महत्वपूर्णसंसाधनस्य संरक्षणाय पर्यावरणस्नेहीप्रथाः स्वीकर्तुं प्रेरिताः।

एतद्व्याख्यानं पर्यावरणीयस्वास्थ्यस्य संरक्षणप्रयत्नानां च विषये समाजस्य शिक्षायाः भारतीयसेनायाः व्यापकपहलायाः अंशरूपेण आयोजितम्। पर्यावरणसंरक्षणे स्वसङ्कल्पस्य पुनरुद्घोषणं कृत्वा सेना स्थैर्यं उत्तरदायी संसाधनप्रबन्धनं च प्रवर्धयन्ति जागरूकताकार्यक्रमेषु संलग्ना भवति।

हिन्दुस्थान समाचार