Enter your Email Address to subscribe to our newsletters
बाराबंकी, २३ मार्चमासः (हि.स.)। थानाक्षेत्रस्य चौरी अलादासपुरग्रामे रविवासरे मच्छानां ग्रहणार्थं गतस्य ५०-वर्षीयस्य व्यक्तेः तडागे निमज्जनात् मृत्युः अभवत्। घटनायाः सूचना प्राप्य पुलिस् मृतस्य शवं स्वाधीने कृत्वा शवपरीक्षणाय मुख्यालयं प्रति प्रेषितवती।
जानकारीअनुसारं गुनौलिग्रामनिवासी जगन्नारायणनिषादः रविवासरे चौरीअलादासपुरग्रामे स्थिते तालाबे मच्छानां ग्रहणार्थं गतः। किन्तु अचानके तस्य पदं स्खलितम्, यस्मात् सः गभीरजलमध्ये प्रविष्टः। तालाबे अधिकं जलं इत्यतः सः निमग्नः सन् मृत्युमुपगतः।
घटनायाः सूचना प्राप्ते कोतवाल्याः निरीक्षकः ओमप्रकाशतिवारी पुलिस्बलं सह स्थलमुपगतः। ग्रामीणानां सहयोगेन मृतस्य शवं तालाबात् बहिः निष्कास्य मृतस्य परिवाराय सूचना दत्तवान्।
एतद्वार्ता श्रुत्वा मृतस्य परिवारमध्ये विषादः अभवत्। तस्य परिवारजनाः शीघ्रमेव स्थलमुपगतवन्तः। पुलिस्कर्मिणः समुचितं कानूनीप्रक्रियां पूर्णं कृत्वा शवपरीक्षणाय मुख्यालयं प्रति प्रेषितवन्तः
हिन्दुस्थान समाचार